________________
नयरहस्यप्रकरणम्।
८१
रीत्या शब्दनया अपि द्रव्यनिक्षेपसहा इति कथम् "भावं चिय सद्दणया, सेसा इच्छंति सव्वणिक्खेवे"त्ति भाष्योक्तव्यवस्था?,एतेन "द्रव्यार्थिक-पर्यायार्थिकयोद्धयोस्तुल्यवादेनोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेनाऽन्त्यस्य तु सर्वथा भेदेन, ततो नैकस्योभयविषयत्वे विषयान्तरग्रहार्थमन्यकल्पनानुपपत्तिः, भेदाभेदोपरागेणोभयस्थाने 'प्रधानतया' इति पाठो युक्तः। उक्तसमाधानस्यायुक्तता दर्शयति-हन्तेति । त्वदुक्तरीत्येति-द्रव्यार्थिकस्य प्रधानतया द्रव्याभ्युपगन्तृत्वं गौणतया पर्यायाभ्युपगन्तृत्वमित्यतो भावनिक्षेपसहत्वं द्रव्यार्थिकस्य त्वयोक्तम् , तद्दिशा च पर्यायनयत्वेनाभिमताः शब्दनया अपि शब्द-समभिरूद्वैवम्भूताः पर्यायं प्रधानतया, द्रव्यं गौणतयाऽभ्युपगच्छन्तो द्रव्यनिक्षेपसहाः स्युरिति शब्दनयानां भावनिक्षेपमात्राभ्युपगन्तृत्वं भाप्योक्तं कथं सङ्गतं स्यादित्यर्थः । “भावं चिय." इत्यादिभाप्योल्लेखः, “भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान्” इति संस्कृतम्। एतेन' इत्यस्य 'अपास्तम्' इत्यनेन सम्बन्धः, एतेन पर्यायार्थिकस्य द्रव्यनिक्षेपसहत्वप्रसङ्गेन । तुल्यवादेन तुल्यतया। उभयाभ्युपगमः द्रव्यपर्यायोभयाभ्युपगमः । तर्हि द्रव्यार्थिकोऽपि पर्यायार्थिकः स्यात् , पर्यायाथिकोऽपि द्रव्यार्थिकः स्याद् विषयभेदाभा वादित्यतस्तथोविशेषमुपदर्शयति-परमिति-किन्त्वित्यर्थः । आद्यस्य द्रव्यार्थिकनयस्य। सर्वथाऽभेदेनेति-'उभयाभ्युपगमः' इत्यनुवर्तते । अन्त्यस्य तु पर्यायार्थिकस्य पुनः। सर्वथा भेदेनेति-अत्रापि 'उभयाभ्युपगमः' इत्यनुवर्तते । ततः द्रव्यार्थिकस्य सर्वथाऽभेदेन द्रव्य-पर्यायोभयाभ्युपगमात् पर्यायार्थिकस्य सर्वथा भेदेन द्रव्य-पर्यायोभयाभ्युपगमाच्च । एकस्य द्रव्यार्थिक-पर्यायार्थिकयोर्मध्यादेकस्य द्रव्यार्थिकस्य पर्यायार्थिकस्य वा। उभयविषयत्वे द्रव्य-पर्यायोभयविषयत्वे सति । विषयान्तरग्रहार्थ विषयान्तरस्य सत्त्वे तद्ग्रहार्थम् । अन्यकल्पनानुपपत्तिः