________________
प्रमोदाविवृतिसंवलितं
....
त्रानुपयुक्तो जीवशब्दार्थज्ञस्य शरीरं वा जीवरहितं द्रव्यजीव इति नाऽव्यापिता नामादीनामित्यपि वदन्ति । ___ ननु तथापि नैगमेन नामादिचतुष्टयाभ्युपगमे तस्य द्रव्यार्थिकत्वव्याहतिः स्यात् , द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् , द्रव्यं पर्यायतया, पर्यायं च गौणतयाभ्युपगच्छन् द्रव्याथिकोऽपि भावनिक्षेपसह इति हन्त! तर्हि तदुक्तयुक्तत्वबुद्धितो गुण-पर्यायवियुक्ताऽपि द्रव्यपरिणतिर्भवेत् , तस्याश्च परिणते व्यद्रव्यत्वमुच्यमानं युज्यताऽपि, न चैवम्-अर्थपरिणतेहनाधीनत्वाभावादित्याह-नहीति । यादृच्छिकज्ञानेति-अर्थोऽन्यथाऽन्यथा च ज्ञानमिच्छामात्रसम्भूतं यत् तद् यादृच्छिकज्ञानमित्यर्थः । नामादीनां सर्ववस्तुव्यापित्वसमर्थनपरं मतान्तरमुपदर्शयति-जीवशब्दार्थज्ञ इति । तत्र जीवशब्दार्थे । अनुपयुक्तः, उपयोगशून्यः, जीवशब्दार्थज्ञो यदा न जीवशब्दार्थविषयकोपयोगवान् तदा स द्रव्यमिति यावत्। यदा जीवशब्दार्थ जानाति तदैव जीवशब्दार्थशः, तदानीं च न तत्रानुप. युक्तः सः, यदा च जीवशब्दार्थ न जानाति तदैव तत्रानुपयुक्तः तादृशश्च जीवशब्दार्थज्ञ एव न भवतीत्यतः कल्पान्तरमाहजीवशब्दार्थज्ञस्येति-एतावता द्रव्यनिक्षेपस्य व्यापिताऽऽवेदिता भवति, न तु नामनिक्षेपस्येत्यस्वरसो ‘वदन्ति' इत्यनेन सूचितः। नैगमस्य द्रव्यार्थिकत्वाद् द्रव्यमात्राभ्युपगन्तृत्वमेव युक्तं न पर्यायाभ्युपगन्त. त्वमिति कथं नामादिचतुष्टयाभ्युपगन्तृत्वं नैगमनयेस्येति शङ्कतेनन्विति । तथापि उक्तदिशा नामादिचतुष्टयस्य सर्ववस्तुव्यापित्वोपपादनेऽपि । तस्य नैगमस्य । द्रव्यमेव योऽभ्युपगच्छेत् स द्रव्यार्थिको भवेद , अयं च पर्यायस्वरूपं भावमप्यभ्युपगच्छतीति कथं द्रव्यार्थिकः स्यादित्याशयेनाऽऽह-द्रव्यार्थिकेनेति, तथा चास्य द्रव्यार्थिकत्वमभ्युपगच्छता नामादिचतुष्टयाभ्युपगन्तृत्वं नास्तीत्येवाभ्युपगन्तव्यमित्यभिसन्धिः। अत्र समाधानं कश्चिदाह-द्रव्यमिति । पर्यायतयेति