________________
नयरहस्यप्रकरणम्।
मात् , मनुष्यादीनां द्रव्यजीवत्वे च सिद्धस्यैव भावजीवत्वप्रसङ्गात् ,आदिष्टद्रव्यहेतुद्रव्यद्रव्योपगमे भावद्रव्योच्छेदप्रसङ्गाच्च । गुण-पर्यायवियुक्तः प्रज्ञास्थापितो द्रव्यजीव इत्येकेषां मतम् , एतदपि न सूक्ष्मम्-सतां गुणपर्यायाणां वुद्ध्यापनयनस्य कर्तुमशक्यत्वात् , नहि यादृच्छिकज्ञानायत्ताऽर्थपरिणतिरस्ति । जीवशब्दार्थज्ञस्तपामपि द्रव्यजीवत्वमेव स्यात् , सिद्धस्यैवानन्तरं गत्यन्तराभावेन नथाविधजीवकारणत्वासम्भवाद् भावजीवत्वं भवेदिति जीवे द्रव्यनिक्षेपसम्भवोऽपि नेत्याह-मनुष्यादीनानिति । घटादीनां पर्यायाणामप्यादिष्टद्रव्यत्वमाश्रित्य तत्कारणत्वेन मृदादिद्रव्यस्य द्रव्यद्रव्यत्वसमर्थनेन द्रव्ये द्रव्यनिक्षेपसम्भवोपदर्शनमपि न युक्तम् , तथा सति द्रव्यमात्रस्यादिष्टद्रव्यत्वकपर्यायकारणत्वेन द्रव्यद्रव्यत्वस्यैव प्राप्त्या भावद्रव्योच्छेदापत्तेरित्याह-आदिष्टद्रव्येति । यद्यपि “गुणपर्यायवद् द्रव्यम्” [तत्त्वार्थसू० ५, ३७.] इति सहभाविनो गुणाः क्रमभाविनश्च पर्यायाः सर्वदैव द्रव्येऽवतिष्ठन्ते, यदि कदाचिद् गुणो द्रव्ये न स्यात् सहभावित्वमेव गुणस्य न भवेत् प्रतिक्षणमन्यान्यभावेन परिणमत्येव द्रव्यं नापरिणम्य क्षणमप्यवतिष्ठत इति एकस्य क्रमभाविनः पर्यायस्य सर्वदा द्रव्येऽभावेऽपि यः कश्चित् पर्यायोऽपि द्रव्ये तिष्टत्येवेति गुणपर्यायवियुक्तं द्रव्यं न भवत्येव स्वासाधारणधर्मवैकल्ये स्वाभावप्रसङ्गान् ,तथाऽपि वुद्धया गुण-पर्यायाभ्यां द्रव्यं पृथक्कृत्य यदा व्यवस्थाप्यते नदा सतोरपि गुणपर्याययोर्बुद्धयैव द्रव्यतः पृथक्करणम् , तथा च बुद्धयाऽपनीतगुण-पर्यायो जीवो द्रव्यजीव इत्येवं जीवे द्रव्यनिक्षेप केचित् संगमयन्ति, तन्मतस्याप्युपदर्शनपुरस्सरमयुक्तत्वं भावयति-गुण-पर्यायवियुक्त इति । एतदपि न सूक्ष्ममिति-एतन्मतमपि सूक्ष्मधिया विचार्यमाणं नोपपद्यत इत्यर्थः । यथैव बुद्धिर्भवेत् तथैव यद्यर्थपरिणतिः स्यात् तदा द्रव्यस्य गुण-पर्यायवि.