________________
७८
प्रमोदाविवृतिसंवलितं
द्रव्यजीवश्च मनुष्यादिरेव, भाविदेवादिजीवपर्यायहेतु. त्वात् ; द्रव्यद्रव्यमपि मृदादिरेव, आदिष्टद्रव्यत्वानां घटादिपर्यायाणां हेतुत्वादिति; एतच मतं नातिरमणीयम्-द्रव्यार्थिकेन शब्दपुद्गलरूपस्यैव नाम्नोऽभ्युपगव्यापित्वमभ्युपगच्छतामाचार्याणां समाधानमपदर्शयति-अपरे त्वाहुरिति । केवलीति-केवली सर्व जानातीत्यनमिलाप्यमपि केवलिप्रज्ञागोचर इति केवलप्रशारूपं नामाऽपि स्ववाच्यविषयतया तत्र वर्तत इति कृत्वा नामनिक्षेपस्तत्र सम्भवतीति नामनिक्षेपस्य सर्ववस्तुव्याप्तिः। द्रव्यनिक्षेपो जीवे द्रव्येऽपि च सम्भवतीति तस्यापि सर्ववस्तुव्याप्तिरित्याह-द्रव्यजीवश्चेति-जीवकारणं द्रव्यजीवो भवितुमर्हतीति जीवो भाविदेवादिजीवपर्यायस्तत्कारण मनुष्यादिजीव इति कृत्वा मनुप्यादिजीवो द्रव्यजीव इति द्रव्यनिक्षेपस्य जीवे संभव इत्यर्थः । द्रव्येऽपि द्रव्यनिक्षेपसम्भवं दर्शयति-द्रव्यद्रव्यमपीति । घटादिलक्षणमृद्द्रव्य-पर्यायाणामपि प्रतिक्षणमन्यान्यघटपरिणतिलक्षणपर्यायकारणत्वाद् द्रव्यत्वमित्येवमादिष्टद्रव्यत्वानां घटादीनां कारणत्वान्मृदादि
व्यं भवतीति द्रव्यनिक्षेपो द्रव्ये सम्भवतीत्याह-आदिष्टद्रव्यत्वानामितिपर्यायार्थिकनयादेशात् पर्यायत्वे सति घटादीनां द्रव्यत्वं द्रव्यार्थिकनयादेशादेव, उत्तरोत्तरस्वपर्यायकारत्वात् तदनुगामित्वाच्च तेषां द्रव्यत्वमादिश्यत इत्यादिष्ट द्रव्यत्वं येषां ते आदिष्टद्रव्यत्वास्तेषामित्यर्थः । हेतुत्वात् कारणत्वान्मृदादेव्यद्रव्यत्वमित्यर्थः। एतन्मतमपि न युक्तमित्याह-एतच्चेति, चकारोऽप्यर्थकः, केवलिप्रज्ञा आत्मनश्चैतन्यलक्षणं गुणः, तस्य द्रव्यार्थिकनयविशेषेण नैगमेन नानुमतं नामत्वम् , तन्नये शब्दात्मकपुद्गलस्यैव नामत्वाभ्युपगमादिति केवलिप्रज्ञामुपादायानभिलाप्यभावेषु नामनिक्षेपसम्भवोपदर्शनं न युक्तमित्याह-द्रव्यार्थिकेनेति । भावदेवादिजीवपर्यायकारणत्वान्मनुष्यादिजीवस्य द्रव्यजीवत्वसमर्थनमप्ययुक्तमेव, तथा सति संसारावस्थायामेकगतितो गत्यन्तरगमनस्य जीवे आवश्यकत्वात् संसारिणां सर्वे