________________
नयरहस्यप्रकरणम्।
७७
प्रवृत्तेः, द्रव्यजीव-द्रव्यद्रव्याद्यसिद्धयाऽभिलाप्यभाव. व्यापिताया अपि वक्तुमशक्यत्वाच्च ।
अन्त्ये "जत्थवि य ण जाणिज्जा, चउकयं णिक्खिवे तत्थ" त्ति । [अनु०] सूत्रविरोधः, अत्र यत्तत्पदाभ्यां व्याप्त्युपस्थितेरिति चेत्, अत्र वदन्ति-तत्तव्यभिचारस्थानान्यत्वविशेषणान्न दोषः, तदिदमयुक्तम्-यद्येकस्मिन् न सम्भवति, नैतावता भवत्यव्यापितेति । अपरे वाहु:-केवलिप्रज्ञारूपमेव नामाऽनभिलाप्यभावेष्वस्ति, परिणामासम्भवात् , एवं यो जीवपर्यायमनुभूयोत्तरकालमजीवो भवेत् सोऽप्यनुभूतजीवपर्यायत्वाद् द्रव्यजीवः स्याद्, न चैवमपि सम्भवति, एवं गुण-पर्यायवियुक्तस्य भावस्य गुण-पर्यायवद्रूपेण परिणामो यदि भवेत् तदा द्रव्यद्रव्यं स्याद् , न चैवमपि सम्भवतीति तयोर्द्रव्यनिक्षपाप्रवृत्तेरभिलाप्यवस्तुव्यापित्वमपि निक्षेपचतुष्टस्य न सम्भवतीत्यर्थः। __अन्त्ये नामादीनां न सर्ववस्तुव्यापित्वमिति पक्षे । जत्थ वि० इति“यत्रापि न जानीयात् चतुष्टयं निक्षेपेत् तत्र' इति संस्कृतम् , चतुष्टयं नामादिचतुष्टयम् । कथं सूत्रविरोध इत्यपेक्षायामाह-अत्रेति, निरुक्तसूत्र इत्यर्थः । तत्रैकेयां समाधानमुपदर्शयति-अत्र वदन्तीति ! तत्तदिति, यत्र यत्र वस्तुनि न नामादिनिक्षेपचतुष्टयप्रवृत्तिसम्भवस्तत्तदन्यत्वे सति वस्तुत्वं यत्र तत्र नामादिचतुष्टयमित्येवं नियमाः भ्युपगमे न पूर्वोपदर्शितव्यभिचारदोष इत्यर्थः । एवं व्यभिचारोद्धारे प्रमेयत्वादिहेतुरपि वह्निव्याप्यः स्यात् , यत्र यत्र व्यभिचारस्तद न्यत्वे सतीति विशेषणोपादानेन प्रमेयत्वे वह्निव्यभिचारपरिहार सम्भवात् , किन्तु नामादीनां सर्ववस्तुव्याप्तिः प्रायोवादादुच्यते, सा च क्वचिन्नामादिचतुष्टयाभावेऽपि सम्भविनीत्येतावतैव निर्वाहे नोक्तसमाधानं युक्तमित्याह-तदिदमयुक्तमिति । वस्तुत एव सर्ववस्तु