________________
प्रमोदाविवृतिसंवलितं
पत्तेश्च। घटाकारोऽपि घट एव, तुल्यपरिणामत्वात् , अन्यथा तत्त्वायोगात्, मुख्यार्थमात्राभावादेव तत्प्रतिकृतित्वोपपत्तेः। मृत्पिण्डादिव्यघटोपि घट एवान्यथा परिणामपरिणामिभावानुपपत्तेः। भावघटपदं चासन्दिग्धवृत्तिकमेव ।
ननु नामादीनां सर्ववस्तुव्यापित्वमुपगम्यते, नवा ? आद्य व्यभिचारः, अनभिलाप्यभावेषु नामनिक्षेपासम्भवात् । नन्वेवं स्थापनाघटेऽपि घटत्वे भावघटादस्य कः प्रतिविशेष इत्यपेक्षायामाह-मुख्यार्थेति । द्रव्यनिक्षेपाभ्युपगन्तृत्वमुपपादयति-मृत्पिण्डादिरिति । अन्यथा मृत्पिण्डादेर्घटत्वाभावे, घटः परिणामः, मृत्पिण्डः परिणामीत्येवं घट मृत्पिण्डयोर्यः परिणाम-परिणामिभावलक्षणः सम्बन्धः सोऽतिप्रसङ्गादत्यन्तभेदे न स्यादित्यर्थः। यश्च पृथुबध्नोदराद्याकारः कम्बुग्रीवादिमान् भावघटस्तस्य घटत्वं सर्वानुमतमेवेति तदभ्युपगन्तृत्वमस्य दर्शयति-भावघटपदमिति ।
प्रसङ्गानुगतं नामादिविचारमुपजीवन् परः शङ्कते-नन्विति । 'नामादीनाम्' इत्यत्राऽऽदिपदात् स्थापना-भाव-द्रव्यनिक्षेपाणामुपग्रहः। आये नामादीनां सर्ववस्तुव्यापित्वमिति पक्षे। व्यभिचारः-यत्र यत्र वस्तुत्वं तत्र नामनिक्षेपादिचतुष्टयप्रवृत्तिरिति नियमाभावः । अत्रैव हेतुमाहअनभिलाप्येति-ये शब्देन न वक्तुं शक्या एतादृशा अपि बहवः पदार्थाः सन्ति, तत्र वस्तुत्वं विद्यते, नामादिनिक्षेपस्तु नास्तीति व्यभिचार इत्यर्थः । ननु यत्र यत्राभिलाप्यवस्तुत्वं तत्र नामादिचतुष्टयमित्येवं नियमे न व्यभिचार इत्यत आह-द्रव्यजीवेति जीवोsभिलाप्यो द्रव्यं चाभिलाप्यमिति जीवे द्रव्ये चाभिलाप्यवस्तुत्वं वर्तते न तयोर्द्रव्यनिक्षेपः, यो भावः पूर्वमजीवः सन् आयत्यां जीवो भवेत् स जीवकारणत्वाद् द्रव्यजीव इति द्रव्यनिक्षेपप्रवृत्तिभवेद् , न चैवम्-अजीवस्य जडस्वरूपस्य कदाचिदपि जीवरूपेण