________________
नयरहस्यप्रकरणम् ।
दुभयविषयत्वेऽपि सम्भूयोभयविषयत्वायोगात् ॥ अस्य च चत्वारोऽपि निक्षेपा अभिमता:- नाम, स्थापना, द्रव्यम्, भावश्चेति । घट इत्यभिधानमपि घट एव, “अर्था- ऽभिधान- प्रत्ययास्तुल्यनामधेयाः” इति वचनात्, वाच्य वाचकयोरत्यन्तभेदे प्रतिनियतपदशक्त्यनुपविशेषोभयविषयत्वेऽपीति यावत् । सम्भूयेति-यस्यैव सामान्यविषयत्वं तस्यैव विशेषविषयत्वमित्येवं सम्भूयेत्यर्थः । उभयविषयत्वायोगाद् नैगमनयस्य प्राधान्येन सामान्य-विशेषोभयविषयत्वाभावात् ।
७५
नाम-स्थापना-द्रव्य-भावरूपनिक्षेपचतुष्टयाभ्युपगन्तृत्वं नैगमनयस्येति दर्शयति-अस्य चेति - नैगमनयस्य पुनः तत्र यस्य कस्यचिद् वस्तुनो घट इति नाम क्रियते स नामघटः, स्वर्गाधिपत्यादिलक्षणेन्द्रपदप्रवृत्तिनिमित्तवियुतोऽपि गोपालदारकः कचिद इन्द्रोऽयमिति सङ्केतितो नामेन्द्रः, घट इति नामाऽपि घट इति नामनिक्षेपः, अयं घटाकर इत्येवं यत् किमपि वस्तु स्थाप्यते स स्थापनाघट इति स्थापनानिक्षेपः । यच मृद्रव्यं घटरूपेण परिणमिष्यति, अनुभूतघटपरिणामं वा तन्मृदृद्रव्यं घटकारणत्वाद् द्रव्यघट इति द्रव्यनिक्षेपः । यस्य वस्तुनो यदसाधारणस्वरूपं तत् तस्य भाव इति पृथुवुध्नोदराद्याकारः कम्बुग्रीवादिमान् योऽयं घटः स भावघट इति भावनिक्षेपः, इत्येवं चत्वारोऽपि निक्षेपा नैगमनयस्याभिमता इत्यर्थः । नामनिक्षपाभ्युपगन्तृनयोऽपि नामनिक्षेप इति तन्मते शब्दार्थयोस्तदात्म्यमेव सम्बन्ध इत्यर्थस्य नामरूपतेत्यभिसन्धानेन नैगमनये नामनिक्षेपाभ्युपगममुपपादयति-घट इत्यभिधानमपीति । घटपदवाच्यत्वं यथा भावघटे तथा घटनाम्न्यपीति तद्रूपेण तयोरभेदाद् घटनाम्नो घटत्वमित्यावेदनायाऽऽह - अर्थाभिधानेति । घट-तन्नाम्नोरभेदे युक्तयन्तरमप्याह-वाच्य-वाचकयोरिति । स्थापनानिक्षेपाभ्युपगन्तृत्वमुपपा दयति-घटाकारोऽपीति एतच्च सद्भूतस्थापनामधिकृत्य बोध्यम् । अन्यथा घटाकारस्य घटत्वाभावे । तत्त्वायोगाद् घटतुल्यपरिमाणत्वा
•