________________
प्रमोदाविवृतिसंवलितं
हित्वं विशेषप्रधानत्वम्, समग्रग्राहित्वं च सामान्यप्रधानत्वं पारिभाषिकम्, अन्यथा सामान्य-विशेषयोर्द्वयोरपि वस्त्वेकदेशत्वात् किं द्वैरूप्यं स्यात् ? |
एवमस्य प्रमाणत्वं स्यात्, न स्यात् - प्रत्येकं भेदशस्तत्वाद् | उत्तरदलस्य विषयविभजनपरत्वेन द्वैविध्योपदर्शनपरत्वं स्पष्टयति-देशग्राहित्वमिति । एतच्च न रूढितः सिद्ध्यतीत्यत आहपारिभाषिकमिति स्याद्वादाभिज्ञानामाचार्याणां सङ्केतः परिभाषा, तत इदमित्थं ज्ञायत इत्यर्थः । अन्यथा देशग्राहित्वादेर्विशेषप्रधानत्वादिपारिभाषिकस्वरूपाश्रयणेन द्वैविध्यस्यानाश्रयणे । किमिति-वस्त्वेकदेशग्राहित्वमेकरूपमेवेति तद्र पेणैकत्वमेव न द्वैरूप्यम्, सामान्यमपि वस्त्वेकदेश एव विशेषोऽपि च वस्त्वेकदेश एवेति देशत्वेन विशेष-सामान्ययोरुभयोरपि ग्रहणात् समग्रेति व्यर्थ स्यादतो देशपदं प्रधानीभूतविशेषे पारिभाषिकं समग्रपदं च सामान्ये पारिभाषिकम्, न तु समग्रपदमनन्तधर्मात्मकसम्पूर्णवस्तुस्वरूपपरं तद्ग्राहित्वस्य नयेऽभावादित्यभिसन्धिः ।
नन्वेवं नैगमस्य प्राधान्येन विशेषग्राहित्वे प्राधान्येन सामान्यग्राहित्वे च प्रमाणत्वमेव स्यात्, प्रमाणस्यापि प्राधान्येन सामान्य- विशेष ग्राहित्वादेव प्रमाणता, तच्चात्राऽप्यविशिष्टमेवेति शङ्कते - एवमिति - प्राधान्येन विशेष - सामान्यग्राहित्वाभ्युपगमे । अस्य नैगमस्य, यस्य नैगमस्य प्राधान्येन सामान्यग्राहित्वं न तस्य प्राधान्येन विशेषग्राहित्वम् यस्य च नैगमस्य प्राधान्येन विशेषग्राहित्वं न तस्य प्राधान्येन सामान्यग्राहित्वम्, प्रमाणस्य त्वेकस्यैव प्राधान्येन सामान्य ग्राहित्वं प्राधान्येन च विशेषग्राहित्वमित्येवं विशेषस्य सद्भावान्न नैगमस्य प्रमाणत्वापत्तिरिति समाधत्ते - न स्यादिति-नैगमस्य प्रमाणत्वं न भवेदेवेत्यर्थः । अत्रैव हेतुमपदर्शयति- प्रत्येकमिति । भेदशः भेदेन । तदुभयविषयत्वेऽपि सामान्य- विशेषोभयविषयत्वेऽपि, पकस्य सामान्यविषयत्वमेकस्य विशेषविषयत्वमिति कृत्वा सामान्य
"