________________
नयरहस्यप्रकरणम् ।
मशक्यत्वाचेत्यन्यत्र विस्तरः। “णेगेहिं माणेहिं, मिणइत्ती य णेगमस्स य निरुत्ती"
त्ति [अनुयोगद्वार]सूत्रम् । नैकमानमेयविषयोऽध्यवसायो नैगम इत्येतदर्थः ।
"निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिज्ञानं च देश-समग्रग्राही नैगमः" इति तत्वार्थभाष्यम् [अ० १ सू० ३५.] । ___ अत्र पूर्वदलं मदुक्तलक्षणकथनाभिप्रायम् , उत्तरदलं च विषयविभागविधानिरूपणाभिप्रायमात्रम् । देशग्रामद्वैतं विरुणद्धयेव, सदविशिष्टमेव सर्वमित्यत्र स्यात् सदविशिष्टमेव सर्वमिति स्याद्वादिभिरुपेयत एव, सन् घट इत्यादिप्रतीतौ चोत्पाद-व्यय-ध्रौव्यात्मकत्वलक्षणसत्त्वमेव प्रकारतया भासते, परोपगतसत्त्वं यथा नोपपद्यते तथोपपादितमेव-"उत्पाद-व्यय-ध्रोव्ययुक्तं सत्” [तत्त्वा० सू० ५, २९.] इति तत्त्वार्थसूत्रव्याख्याने, ग्रन्थगौरवभयान्न तत्र लेखनी व्याप्रियत इति बोध्यम् ॥
नैगमलक्षणोपदर्शकमनुयोगद्वारसूत्रमुल्लिखति-णेगेहिं इति। उक्तमुत्रार्थमुपदर्शयति-नकेति।नैगमलक्षण-तद्विभागोपदर्शक तत्त्वार्थभाष्यमुल्लिखति-निगमेष्विति।
___ अत्र अन्तरोपदर्शितभाष्ये। पूर्वदलं निगमेषु येऽभिहिताः शब्दास्तेपामर्थः शब्दार्थपरिज्ञानश्चेत्यन्तम् । उत्तरदलं देश-समग्रगाहीति । विषयेति-विषयो विशेषः सामान्यं च, तस्य यो विभागो विभजनमेकत्र प्राधान्येन विशेषविषयत्वमपरत्र प्राधान्येन सामान्यविषयत्वम् तेन यद् विधानिरूपणं देशग्राही विशेषप्रधानो नैगमः, समग्रगाही सामान्यप्रधानो नैगम इत्येवं नैगमभेदद्वयनिरूपणं तदभिप्रायमात्रं तदभिप्रायकमेव, न तु लक्षणप्रदर्शनम् , लक्षणस्य पूर्वदलेनैव वृत्त