________________
७२
प्रमोदाविवृतिसंवलितं
~
~
~
~
~
श्रुतिस्वरसादित्यद्वैतवादिश्रीहर्षमतमपि न रमणीयम्, भेदस्यावास्तवत्वे तदभावरूपाभेदस्यापि तथात्वात्, तादात्म्यस्यापि जगतः पौनरुत्तयाद्यापत्त्या सर्वथा वक्तुएव च तात्त्विकसम्बन्धव्यापकः, ज्ञानस्य च ज्ञेयेन सह देशविप्रकर्षः स्फुटमेव ज्ञानस्यान्तरत्वाज्ज्ञेयस्य च बहिरवस्थितेः, अतीताऽनागतयोरप्यर्थयोञ्जनं भवतीति कालविप्रकर्षोऽपि स्फुटमेवेति न परप्रक्रियया ज्ञान-ज्ञेययोस्तात्त्विकः सम्बन्धः, व्यापकाभावाद् व्याप्याभावव्यवस्थितेः, किन्तु काल्पनिकः, स च सम्बन्धिनोरेकस्यावास्तवत्वे रज्जु-सर्पाद्योरिव भवति, तत्रापि अनुगतस्य नावास्तवत्वं किन्त्वननुगतस्यैवेति-घटं जानामि, पटं जानामि, मठं जानामीत्यादौ सर्वत्र ज्ञानमनुगतमननुगतं च घट-पटायेवेति तदेव रजौ सादिकमिव ज्ञाने कल्पितम् , कल्पना च न दोषमन्तरेणेति अविद्यैव तत्र दोषविधया कारणम् , तयैव ज्ञाने परब्रह्मचैतन्यलक्षणे घट पटादिकं कल्पितं भवति, तत एव च ब्रह्मात्मकज्ञानेन सहाध्यासिकस्तादात्म्यसम्बन्धोऽपि कल्पित इति । उक्तमतस्यायुक्तत्वे ग्रन्थकद्धतुमुपदर्शयति-भेदस्येति । तदभावेति-भेदाभावेत्यर्थः। तथात्वाद् अवास्तवत्वात् । यदि सदविशिष्टमेव सर्व तथा घट इत्युक्त्यैव पटादीनां सर्वेषामर्थानामवबोधसम्भवात् तत्प्रतिपादकं वचनं नोच्चारणीयम् , तदभिधाने पौनरुक्त्यं स्यात् , एवं क्वचिदपि ग्रन्थे आदौ यस्य कस्यचिदपि वाक्यस्योच्चारणे तत एवाशेषग्रन्थप्रतिपाद्यस्यार्थनिकरस्यावबोधसम्भवाद् वाक्यान्तरं नोट्टङ्कनीयम् , हेमचन्द्रसूरिभिश्च "माया सती चेद्" इत्यादिना मायावादोऽपहस्तित एवेत्याशयेनाऽऽह-तादात्म्यस्यापीति-सर्वथा तादात्म्यस्यापीत्यर्थः, तेन कथश्चित्तादात्म्ये पौनरुक्त्याद्यभावेऽपि न क्षतिः, तथाहि-भेदप्रतियोगित्वाऽनुयोगित्वादेः स्वरूपसम्बन्धात्मकत्वेऽपि स्वरूपसम्बन्धः कथञ्चित्तादात्म्यमेवेति भेदप्रतीत्याऽपि कथञ्चित्तादात्म्यमेव प्रतियो. ज्यनुयोगिनोः सिद्धयति, कथञ्चित्तादात्म्यं च सर्वथा तादात्म्यलक्षण