________________
नयरहस्यप्रकरणम् ।
VASNAC
Mr
.N...NYA
-
.
जगदैक्यपर्यवसानात् , भेदस्याविद्योपकल्पितत्वात् तथैव सममभेदबुद्धेरप्यभेदबुद्धिराधीयत इति भेदाऽभेदबुद्धयोरभेदे कथं स्वस्यैव स्वबाधकत्वम् , तथा घट-पटमेदैः समं तबुद्धे दो न तबुद्धयैव विषयीकृत इति तेषामभेदोऽद्वैतश्रुतिजन्यबोधविषय इति ततोऽप्युक्तनियमबलाद् घट-पटयोरमेदव्यवस्थितिरिति यस्य यतो भेदो नाध्यक्षादिना विषयीकृतस्तत्रैव सर्वस्मादभेदस्योक्तश्रुतिजबोधविषयत्वे उक्तनियमात् सर्वाभेदः सिद्धत्येव, यथा च सर्व ब्रह्माभिन्नमिति प्रतीतिः, तथा-सर्व सर्वस्माद् भिन्नमिति नहि सम्भवति स्वस्यापि सर्वान्तर्गतत्वेन स्वस्मिन् स्वभेदस्य भेदवाद्यननुमतत्वाद्. उक्तञ्च खण्डनखण्डखाये--
“सुदूरधावनधान्ता बाधबुद्धिपरम्परा। निवृत्तावद्वयाम्नायैः पाश्निग्राहैविजीयते" ॥३॥
[परि० १, श्लो० ८] तथा
"अभेदं नोल्लिखन्ती धीन मेदोल्लेखनक्षमा। तथा चाये प्रमा सा स्यान्नान्ते स्वापेक्ष्यवैशसात्" ॥२॥
[परि० १, श्लो० १८] इत्यादि । तदेतत् सर्वमभिप्रेत्याह-अन्तत इति । यदा चोक्तयुक्तिकदम्बेन सदविशिष्टत्वेन सर्वस्याद्वैतं पारमार्थिक व्यवस्थितं तदा प्रतीयमानस्य भेदस्यापि सर्वथाऽपलापो न युक्त इति तस्य का गतिरित्यपेक्षायामाह-भेदस्येति-“इन्द्रो मायाभिः' इत्यादिश्रुत्या जगत एव मायापराभिधानाऽविद्योपकल्पितत्वमिति तदन्तर्गतस्य भेदस्याष्यविद्योपकल्पितत्वम् , यदाह श्रुतिः-"द्वैताद् वै भयं भवति', “यदा सर्वमात्मैवाभूत् तदा केन कं पश्येत्" इत्यादि। अविद्योपकल्पितत्वं जगत इत्थं भावनीयम्-ज्ञानाधीनैव ज्ञेयव्यवस्थितिः, ज्ञानं च वस्त्ववभासकत्वादेव तत्र प्रमाणम् , असम्बद्धञ्च ज्ञानं न वस्त्ववभासकमिति शेयेन सह ज्ञानस्य सम्बन्धो वाच्यः, देश-कालविप्रकर्षाभाव