________________
७०
प्रमोदाविवृतिसंवलितं
____ "सदविशिष्टमेव सर्वम्" भेदप्रतियोगित्वानुयोगित्वादेः स्वरूपसम्बन्धाऽऽत्मकत्वेनाप्यन्ततो वाच्यम् , यतः-सा सति वर्ततेऽसति वा ?, आये सत्तावत्त्वादेव सदिति स्यादिति धर्मिविशेषणीभूता सत्ताऽऽत्माश्रयभयात् प्रकारीभूतसत्तातोऽतिरिक्तोपगन्तव्या, तस्या अपि सत्येव वृत्तिरित्यनवस्थाप्रसङ्गः, द्वितीयेऽसत्त्वाविशेषात् खरविषाणादावपि सत्त्वं स्यादित्यलीकं किमपि न भवेदतो ब्रह्मैव स्वतः सद्रूपं सन् घट इत्यादिप्रतीतौ तादात्म्येन घटादौ विशेषणतयाऽवभासते, तथा च तदभिनाभिन्नस्य तदभिन्नत्वमिति नियमेन घटाभिन्नसदभिन्नस्य पटादेघंटाभिन्नत्वं पटाभिन्नसदभिन्नघटादेः पटाभिन्नत्वमिति सदात्मना सर्वमद्वितीयमिति सदविशिष्टमेव सर्वमिति ब्रह्माद्वैतवादिमतमुपपद्यतेतरामित्यर्थः। ननु यथा-सन् घटः, सन् पट इत्यादिसदभेदप्रतीतिरुपजायते तथा घटः पटाद् भिन्नः, पटो घटाद् भिन्नः, घटः पटो नेत्यादिप्रतीतिरपि सर्वलोकप्रसिद्धा नापलपितुं शक्येति तद्बाधान्नैकान्तेन सदविशिष्टतैव सर्वस्य वस्तुन इत्यत आह-भेदप्रतियोगित्वानुयोगित्वादेरिति-घटः पटाद भिन्न इत्यत्र मेदस्यानुयोगितया घटो भासते प्रतियोगितया पट इति, प्रतियोगित्वाऽनुयोगित्वादिकं च यद्यतिरिक्तं तदा तदपि नासम्बद्धमेव सम्बन्धतयाऽभ्युपेयम् , तथा सति पटभेदस्यानुयोगित्वलक्षणसम्बन्धो घटादाविव पटेऽप्यसम्बद्धत्वाविशेषात् स्यादिति पटः पटाद् भिन्न इत्यपि प्रतीतिरापद्येत, सम्बद्धस्यैव सम्बन्धत्वे च तस्यापि सम्बन्धोऽतिरिक्तः सम्बद्धस्य सम्बन्धत्वमित्यनुरोधेनाभ्युपेय इत्यनवस्था स्यादित्यनतिरिकमेव स्वरूपसम्बन्धरूपं प्रतियोगित्वाऽनुयोगित्वादिकम् , तथा च भेदस्यानुयोगिना प्रतियोगिना सह स्वरूपसम्बन्धबलादभेदे व्यवस्थिते तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमबलात् प्रतियोग्यनुयोगिनोएप्यमेदव्यवस्थितिरिति भेदप्रतीतिरप्यमेदसाधिकैव, एवं “एकमेवाद्वितीयं ब्रह्म" इति श्रुत्या सर्वस्यामेदं गोचरन्त्या घट-पटबुद्धया