________________
नयरहस्यप्रकरणम्।
नित्यद्रव्याणामपि स्वत एव व्यावृत्तत्वात्, अन्यथा नित्यगुणेष्वपि तत्कल्पनप्रसङ्गात् । आश्रयविशेषेणाऽऽश्रितव्यावृत्ते ऽयं दोष इति चेत्, आश्रितविशेषेणाऽsश्रयव्यावृत्तिरित्येव किमिति नाद्रियते । जातिमत्पदार्थानां किञ्चिद्धमणव व्यावृत्तिरिति नियमेन तेषां स्वतो व्यावृत्तत्वासम्भवात् , स्वतो व्यावृत्तत्वलक्षणरूपहानिप्रसङ्गभीत्यैव च विशेषेष्वनन्तेष्वपि न जातिः कल्प्यत इत्येवं विशेषसाधके प्रमाणे सति न प्रमाणमस्तीति रिक्तं वच इत्यत आह-विशेषाणामिवेति-पतञ्च पराभ्युपगममाश्रित्य, सिद्धान्तेऽतिरिक्तविशेषाणामभावाद् दृष्टान्तत्वासम्भवात् । जातिमत्पदार्थानां किञ्चिद्रपेण व्यावृत्तिरिति नियमस्तु नव्यनैयायिकेरपि नाभ्युपेयत एवेति न तद्बलान्नित्यद्रव्येपु स्वतो व्यावृत्तत्वासम्भव उद्भावनीयः, यदि च जातिमत्यदार्थानां किञ्चिद्रपेणैव व्यावृत्तिरिति नियमावष्टम्भादेव नित्यद्रव्येषु व्यावर्तकतया विशेषाः कल्प्यन्ते तदा नित्यगुणेष्वपि ते कल्प्यन्ताम् , तेष्वपि स्वतो व्यावृत्तत्वासम्भवादित्याह-अन्यथेति । तत्कल्पनप्रसङ्गाद् विशेपकल्पनापत्तेः । नन्वेतत्परमाणुरूपमेतस्मात् परमाणुरूपाद् भिन्नम् , भिन्नपरमाण्वाश्रितत्वादित्याश्रयभेदादेव तद्भेदसिद्धिसम्भवान्न नित्यगुणेषु विशेषाः कल्प्यन्त इति वैशेषिकः शङ्कतेआश्रयविशेषेणेति । अयं विशेषकल्पनप्रसङ्गलक्षणः, नित्यगुणेष्वेव विशेषाः कल्प्यन्ताम् , ततो नित्यगुणानां भेदसिद्धौ तदाश्रयत्वादेव नित्यद्रव्यभेदसिद्धिसम्भवान्न नित्यद्रव्येषु विशेषाः कल्पनीया इत्येव किं न स्यादिति समाधत्ते-आश्रितविशेषेणेति।
वेदान्तिशिरोमणिश्रीहर्षमिश्रमतस्याद्वैतसमर्थनप्रवणस्योपदर्शनपुरस्सरमयुक्तत्वं भावयति-सदविशिष्टमेव सर्वमिति-घटः सन् , पटः सन्निति प्रतीत्या वस्तुमात्रं सदभ्युपगन्तव्यम् , न च तस्यां प्रतीतौ नैयायिकाग्रुपगताऽतिरिक्ता सत्ता प्रकारतयाऽवभासते घटादिकं विशेग्यतयेति