________________
प्रमोदाविवृतिसंवलितं
ङ्गीकारं विना वक्तुमशक्यत्वादिति विवेचितमन्यत्र ॥ विशेषातिरेकेऽपि न प्रमाणमस्ति विशेषाणामिव रिक्ताः सन्ति, अथापि तदाकारकल्पना भवति तथैव समानपरिणामस्वभावाभावेऽपि तदाकारविकल्पः स्यादित्यत आह- समुद्रोर्मीतिसमुद्रादेव समुद्रोमिंकल्पना भवति, समुद्रश्चैकानेकस्वभाव एवेति साऽपि कल्पना न विषयं विनेत्याशयः, एतावताऽतिरिक्त सामान्यप्रतिक्षेपः स्याद्वाद्यभिमतसमानपरिणामस्वभावसामान्य सद्भावश्चोपपादितः ।
अथ वैशेषिकाभ्युपगतातिरिक्त विशेषपदार्थ प्रतिक्षिपति - विशेषातिरेकेऽपीति-विशेषपदार्थभेदेऽपीत्यर्थः । न प्रमाणमस्तीति - ननु विरुद्धधर्माध्यासात् पदार्थानां भेदः सिद्धयति, तत्र द्रव्यादीनां द्रव्यत्वादिविरुद्धधर्माध्यासाद् भेदः, पृथिव्यादीनां पृथिवीत्वादिजातिमत्त्वाद् भेदः, घट- पटादीनां च घटत्व-पटत्वादिजातिमत्त्वाद् भेदः, तत्रानुमानम् - घटः पटाद् भिन्नो घटत्वादिति, घटजातीयानामपि भेदो विरुद्धधर्माध्यासादेव, तद्यथा - अयं घट एतस्माद् घटाद् भिन्न भिन्नकपालारब्धत्वादिति, एवं पटादावपि अयं पट एतस्मात् पटाद् भिन्नो भिन्नतन्त्वारब्धत्वादिति, एवं ह्यणुकलक्षणाऽऽद्यावयविपर्यन्तं भिन्नावयवाऽऽरब्धत्वाद् भेदः सिद्धयति, यथा च द्यणुकेऽयं णुक एतस्माद् द्यणुकाद् भिन्न भिन्नपरमाण्वारब्धत्वादित्यनुमानं भिन्नावयवारब्धत्वहेतुकं प्रर्वतते न तथा परमाणुषु तेषामवयवाभावेन तदारख्धत्वाभावान्नित्यत्वाच्च, किन्तु परमाणूनां परस्परभेदका विशेषा एव, परमाणूनां भिन्नत्वाच्च तद्वृत्तित्वेन तद्गतगुणानामपि भेदसिद्धिसम्भवेन न तेषु विशेषाः, विशेषेष्वप्यन्योऽन्यं भेदसि
ये विशेषान्तरकल्पने ऽनवस्था स्यादतो विशेषाः स्वत एव व्यावृत्ता अभ्युपगम्यन्ते, अनयैव दिशाऽन्येष्वपि नित्यद्रव्येषु विशेषाः सिद्धयन्ति, अतिरिक्तविशेषपदार्थकल्पनापेक्षया लाघवान्नित्यद्रव्यायेव स्वतो व्यावृत्तानि किमिति नाभ्युपेयन्त इति न चोद्यम्,