________________
नयरहस्यप्रकरणम् ।
अविषय एवायं समानाकार इत्यपि न युक्तम्, बीजाभावात् । अनादिवासनादोषो बीजमिति चेत्, नवासनाया बोधरूपत्वे समनन्तरज्ञानेऽपि तत्प्रसङ्गात् । विशिष्टबोधरूपत्वे च किं वैशिष्ट्यमिति वाच्यम्, अनादिहेतुपरम्पराजन्यत्वमिति चेत्, न तत्रापि तन्मात्राविशेषात् समुद्रोर्मिकल्पनाया अपि चित्रहेतुस्वभावा
,
६७
त्वाच्च कार्यभेदाद् व्यावृत्तितो व्यावृत्तिबुद्धिरपि स्यादेवेत्याहजनकतया अति । 'कार्यानुमान०' इत्यस्य कार्यलिङ्गकानुमानेत्यर्थः । सामान्यलक्षणविषयमन्तरेणैवानुवृत्तिवुद्धिर्भवतीति वस्तुनः समानपरिणामलक्षणमपि सामान्यं न कल्पनीयमिति बौद्धाऽऽशङ्कामुद्भाव्य प्रतिक्षिपति - अविश्य एवेति निर्विषयक एवेत्यर्थः । સય समानाकार:- अनुगताकारो बोधः । यद्यनुगताकारबोधस्य विषयोऽनुगतः कश्चिन्न स्यात् कारणाभावात् तादृशबोध एव न भवेदित्याहचीजाभावादिति-निमित्ताभावादित्यर्थः । बौद्धः शङ्कते - अनादीति - अनादिवासनालक्षणदोषादेवानुगत बुद्धयात्मको विकल्पो भवतीत्यर्थः । वासना किं ज्ञानमात्रं विशिष्टज्ञानं वा ? आधे यत् किमपि ज्ञान - मुत्पद्यते तत् पूर्वज्ञानादेवेति समनन्तरज्ञानमात्रे पूर्वज्ञानलक्षणवासनासमुत्थेऽनुगताकारता स्यादिति समाधत्ते - नेति । तत्प्रसङ्गात् समानाकारप्रसङ्गात् । द्वितीये त्वाह - विशिष्टबोधरूपत्वे चेति । किं वैशिष्टयं बोधविशेपणीभूतं वैशिष्ट्यं किम् ?, तथा च ज्ञाने विषयनिबन्धनमेव वैशिष्टयमिति विषयस्य समानपरिणामस्य सिद्धिरित्यभिसन्धिः । बौद्ध आह- अनादीति अनादिहेतुपरम्पराजन्यत्वं ज्ञानमात्र एवं वर्तत इति ज्ञानमात्रमेव विशिष्टबोधरूपत्वाद् वासनेति तज्जन्यत्वाद् समनन्तरज्ञाने समानाकारप्रसङ्गस्तदवस्थ इति प्रतिक्षिपति-नेति । तत्रापि समनन्तरज्ञानेऽपि । तन्मात्राविशेषाद् अनादिहेतुपरम्पराजन्यज्ञानलक्षणचासनारूपदोषप्रभवत्वाविशेषात् । ननु समुद्रोर्मयो न समुद्रव्यति
-