________________
६६
प्रमोदाविवृतिसंवलितं
परिणामत्वेनानुवृत्तिधीजनकताऽऽत्माश्रयादिति चेत्, नवस्तुनस्तत्स्वभावस्य मृत्परिमाणत्वादिना जनकत्वेऽदोषात् , जनकताया अपि परिणामरूपत्वेन नानात्वस्य दोषानावहत्वादेकत्वसम्भवेन कार्यानुमानानुच्छेदादिति दिक ।
सामान्यग्रहरूपकारणे सत्येवैकसामान्यवत्त्वग्रहरूपकार्यस्य सम्भवात् , अनुवृत्तिबुद्धिजननस्वभाव एव समानपरिणाम इति तस्य सामान्याघटितत्वेन तद्ग्रहे सामान्यग्रहानपेक्षणादिति । नन्वनुवृत्तिधीजननस्वभावो भवतु समानपरिणामः परं तस्यानुवृत्तिधीजननस्वभावत्वेनैवानुवृत्तिबुद्धिं प्रति कारणत्वं वाच्यम् , तथा चानुवृत्तिबुद्धिजनकताया अनुवृत्तिधीजनकताऽवच्छेदिकेत्यात्माश्रयोऽत्र दुर्निवार इति शङ्कते-तथापीति-समानपरिणामस्य सामान्याघटितत्वेऽपीत्यर्थः । 'अनुवृत्तिधीजननस्वभावपरिणामत्वेनानुवृत्ति०'इति स्थाने 'अनुवृत्तिधीजननस्वभावपरिणामत्वेन नानुवृत्ति' इति पाठो बोध्यः । घटादिवस्तुनोऽनुवृत्तिधीजननस्वभावस्यानुवृत्तिधीजननस्वभावत्वेन न कारणत्वं येनात्माश्रयः किन्तु मृत्परिणामत्वेनैव, तत्र जनकत्वाप्रवेशादात्माश्रयाभावादिति समाधत्ते-नेति । तत्स्वभावस्य अनुवृत्तिधीजननस्वभावस्य । 'मृत्परिमाणत्वादिना' इत्यस्य स्थाने 'मृत्परिणामत्वादिना' इति पाठो युक्तः । घट-शरावोदञ्चनादौ सर्वत्र मार्दवोऽयं मार्दवोऽयमित्यनुगतमतौ मृत्परिणामत्वेन कारणत्वम् , मृद्विकारे घटे सर्वत्र घटोऽयं घटोऽयमित्यनुगतमतौ मृत्परिणामविशेषत्वेन कारणत्वम्, एवं शरावाद्यनुगतप्रतीतावपि तत्तद्विलक्षणमृत्परिणामत्वादिनेति तत्सङ्ग्रहायाऽऽदिपदोपादानम् । ननु घटादौ तत्तत्कार्यभेदेन तत्त. निरूपिता कारणताऽपि परिणामस्वभावा नानैव स्यादिति चेद्, अस्त्वेवम् , तस्या अपि नानात्वमेकत्वञ्चोपेयत एव, सामान्यत एकस्य तस्यानुवृत्तिबुद्धिलक्षणकार्येणानुमानमपि सम्भवत्येव, नाना