________________
नयरहस्यप्रकरणम्।
तु द्वित्वादितुल्यतापत्तिरिति न्यायालोके समर्थितमस्माभिः ।
समानपरिणामरूपसामान्याभ्युपगमेऽपि प्रतिविशेष तदन्यत्वाद् विशेषादविशेष इति चेत् , न-स्वभावभेदेन तद्विशेषात् , अत एव समानत्वं सामान्यगर्भम् , तच तदग्रहे दुर्ग्रहमिति परास्तम् । तथाप्यनुवृत्तिधीजननस्वभावस्यात् । अन्यथा तु प्रतिव्यक्ति पर्याप्त्यभावे पुनः । द्वित्वादीति-यथा द्वित्वादिकं पर्याप्न्या द्वयादावेव वर्तते न त्वेकस्मिन् , तथा सामान्यमपि यावयक्तिपर्याप्तमेव स्यान्न त्वेकैकवृत्तीत्यर्थः। ___अतिरिक्तसामान्यस्य यथा कात्स्न्येन वृत्तिपक्षे नानात्वापत्तिस्तथा जैनाभ्युपगतसमानपरिणामरूपसामान्यपक्षेऽपि प्रतिव्यक्ति समानपरिणामस्यावयवसन्निवेशविशेषादिरूपस्य भिन्नत्वमेवेति नानारूपात् तस्मान्नानुवृत्तिप्रतीत्युपपत्तिर्विशेषेभ्य इवाविशेषादिति शङ्कते-समानेति । प्रतिविशेष प्रतिव्यक्ति । तदन्यत्वात् समानपरिणामस्य भिन्नत्वात् । अतिरिक्तसामान्यपक्षे यथा विशेषस्य नानात्वं तथोक्तयुक्त्या सामान्यस्यापि नानात्वमिति विशेषतोऽनुगतप्रतीत्यभाववत् सामान्यतोऽपि नानुगतप्रतीतिसम्भवः, जैनमते तु व्यक्तेरेव समानपरिणामस्यानुगतप्रतीतिजनकत्वस्वभावः, अतुल्यपरिणामस्य च व्यावृत्तिप्रतीतिजनकत्वस्वभाव इति स्वभावभेदलक्षणस्य विशेषस्य सद्भावादुमयस्वभावात्मकव्यक्तितोऽनुवृत्ति-व्यावृत्तिबुद्धयोरुपपत्तिरिति समाधत्त-नेति । अत एव स्वभावभेदलक्षणस्य समानासमानपरिणामयोविशेषस्य सद्भावादेव, अस्य 'परास्तम्' इत्यनेनान्वयः । समानपरिणामरूपे सामान्ये परिणामविशेषणीभूतं समानत्वम् एकसामान्य वत्त्वमेकजातीयत्वं वेति सामान्यगर्भ सामान्यघटितम् । तच्च सामान्यघटितस्वरूपं समानत्वं च। तदग्रहे सामान्याग्रहे । दुग्रह ज्ञातुमशक्यम् , विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वेन