________________
प्रमोदाविवृतिसंवलितं
व्यक्ति नानात्वापत्तिः। न च व्यक्तिवृत्तित्वं सामान्यस्योपगम्यत एव, देश-कात्ययोस्त्वनुपगमादनुक्तोपालम्भ इति वाच्यम् , उक्तान्यतरप्रकारव्यतिरेकेणान्यत्र वृत्त्यदर्शनात्, अत्रान्यतरप्रकाराश्रयणेऽन्यतरदोषापत्तेर्वज्रलेपत्वादिति सम्मतिटीकाकृतामभिप्रायः। प्रतिव्यक्ति पर्याप्तत्वे प्रतिव्यक्ति परिसमाप्त्यापत्तिः, अन्यथा
यपक्षे त्वित्यर्थः । ननु व्यक्तिषु अनुगतप्रतीत्यन्यथाऽनुपपत्त्या सामान्यं तत्प्रतीत्युपपादकं वर्तत इत्येव कल्प्यते न त्वेकदेशेन कात्स्न्येन वेति नोक्तदोषावकाश इति पराकृतमाशङ्कय प्रतिक्षिपति-न चेति'वाच्यम्' इत्युत्तरेण संबन्धः, एकस्य रज्जु-सादेरवयविनोऽनेकत्र भूतलादिप्रदेशे वृत्तिरेकदेशेन दृश्यते, एकस्य परमाणोरेकस्मिन् देशे कात्स्न्येन दृश्यते, न तु प्रकारान्तरेण वृत्तिः कुत्रापि कस्यापि दृश्यत इति सामान्यस्याप्येतदन्यतरप्रकारेणैव वृत्तिर्युक्ता एतदन्यतरप्रकाराभावे तु न वर्तत एव सामान्यमित्येव कल्पयितुं युक्तेति प्रतिक्षेपहेतुमुपदर्शयति- उक्तान्यतरप्रकारव्यतिरेकेणेति- एकदेशावच्छिन्नवृत्ति-कात्रावच्छिन्नवृत्त्यन्यतरप्रकारव्यतिरिक्तप्रकारेणेत्यर्थः। अन्यत्र सामान्यातिरिक्तपदार्थमात्रे। अत्र सामान्ये । अन्यतरेति-एकदेशेन वृत्त्याश्रयणे सावयवत्वप्रसङ्गस्य कात्स्न्येन वृत्त्याश्रयणे नानात्वप्रसङ्गस्य च वज्रलेपत्वादित्यर्थः। नायं सामान्यखण्डनप्रकारः परैः परिहर्तुं शक्यो वादिनिकरपरिशीलितयुक्तिजालापाकरणलम्पटसम्मतिटीकाकृदुपपादितत्वाद्, एतत्परिष्कारसम्यगवबोधनाय सामान्यखण्डनप्रकारजिज्ञासुभिः सम्मतिटीकाऽवलोकनीयेति सम्मतिवृत्तिवहुमानप्रकटनायाह- सम्मतिटीकाकृतामभिप्राय इति । स्वयमपि पराभिप्रेतसामान्यखण्डनं न्यायालोके कृतमिति तदप्यवलोकनीयं जिवासुभिरित्याशयेनाह-प्रतिव्यक्ति पर्याप्तत्व इति-तथा च नानात्वापत्तिरत्र