________________
नयरहस्यप्रकरणम्
६३
तुल्यपरिणामेनानुवृत्तिवुद्धेरूचंताद्यतुल्यपरिणामेन च व्यावृत्तिवुद्धरुपपत्तरतिरिक्तकल्पने मानाभावात् । तदुक्तम् । "वस्तुन एव समानः परिणामोऽयं स एव सामान्यम्। असमानस्तु विशेषो वस्त्वेकमनेकरूपं तु"॥१॥ इति ।
अतिरिक्तं तु सामान्य व्यक्तिष्वेकदेशेन समवेयात्, कात्स्न्येन वा ? आधे सावयवत्वप्रसङ्गः, अन्त्यै च प्रतिरोधेनातिरिक्तसामान्य-विशेषाभ्युपगमो युक्त इति समाधत्ते-मैवमिति । अतिरिक्तकल्पने आधारद्रव्यात् सर्वथा भिन्नयोः सामान्य-विशेषयोः कल्पने । एकाऽनेकात्मकवस्तुन एव समानपरिणामः सामान्यम् , असमानपरिणामश्च विशेषस्ताभ्यामनुगत व्यावृत्तिवुद्धी इति वृद्ध. वचनसंवादतो द्रढयति-तदुक्तमिति ।
वैशेषिकाभ्युपगतातिरिक्तसामान्यखण्डनं विस्तरतः सम्मतिटीकाकृद्भिः कृतमेव संक्षेपतो दर्शयति-अतिरिक्तं त्विति। अनेकासु व्यक्तिपु एकदेशेन सामान्यस्य वृत्तिस्तदैव स्याद् यदि बहवो देशाः सामान्यस्य भवेयुरिति तदेशानां सामान्याश्यक्त्वे सामान्यस्य सावयवत्वं तत्पले दुर्वारमित्याह --अब इति-व्यक्तिष्वेकदेशेन सामान्य समवतीति पक्ष इत्यर्थः । ले देशा अपि सामान्यस्य तदैव स्र्यदि नेषु सामान्यं वर्तत, तत्रापि चैकदेशेन सामान्यं समवेयात् का. स्न्येन वेति वृत्तिविकल्पसस्मयेनाधपक्षेऽनवस्था दुरा स्मादिति बोध्यम्, व्यक्तिषु सामान्य कात्स्न्येन वर्तत इति पक्षस्तदेवोपपद्यते यदि यावत्यो व्यक्तयस्तावन्ति सामान्यानि स्युः, अन्यथैकं सामान्य कात्स्न्यनैकत्रैव व्यवस्थितमिति व्यक्त्यन्तरेषु सामान्यं न भवेदेवेति तदधीनवुयनुपपत्तिः, अनेकसामान्यापत्तौ च सामान्यमेव तन्न भवेद् 'नित्यमेकमनेकानुगतम्' इति सामान्यलक्षणस्यैवाघटनादित्याशयेनाह-अन्त्ये चेति-व्यक्तिषु कात्स्न्येन सामान्यं वर्तत इति द्विती