________________
प्रमोदाविवृतिसंवलितं
आह-अतिरिक्तसामान्य-विशेषानभ्युपगमे कथमनु. वृत्ति-व्यावृत्तिबुद्धी ? न हि ते अहेतुके, नवैकहेतूद्भवे, न वा निर्विषये एव दोषजे इति, मैवम्-वस्तुन एव मृदादि___ ननु स्वतन्त्रसामान्य विशेषोभयाभ्युपगन्तृत्वे नैगमस्य कणादवद् दुर्नयत्वापादनं शङ्कायां यद् दर्शितं तेन वैशेषिकसम्मतयोरतिरिक्तसामान्य-विशेषयोः स्याद्वादिनोऽनभ्युपगम इति प्रतीयते, न च तयोरनभ्युपगमो युक्तः, तथा सति सामान्यनिवन्धनाया अनु. गतबुद्धेर्विशेषनिवन्धनाया व्यावृत्तिवुद्धरुत्पत्तिरेव न स्यादित्यनुगतवुद्धयन्यथाऽनुपपत्त्याऽतिरिक्तस्य सामान्यस्य व्यावृत्तिवुद्धयन्यथाऽनुपपत्त्याऽतिरिक्तस्य विशेषस्य चाभ्युपगन्तुमुचितत्वेन तदुभयाभ्युपगन्तृत्वेऽपि न नैगमस्य दुर्नयत्वमिति स्याद्वादानभिज्ञस्य परस्य शङ्कासुत्थापयति-आहेति-परो व्रत इत्यर्थः । ते अनुवृत्ति-व्यावृत्तिबुद्धी, तयोरहेतुकत्वाभ्युपगमे आकाशादिवत् सर्वदा सत्त्वं गगनकुसुमादिवत् सर्वदाऽसत्त्वमेव वा स्यान्न कादाचित्कत्वम् , तदुक्तम्
"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः” ॥१॥ इति । __ ननु यद्घटादिवस्तुनि अनुगत-व्यावृत्तिबुद्धी जायेते तदेकघटादिवस्तुप्रभवे एव ते नाहेतुके इत्यत आह-नवैकहेतूद्भवे इति-सामग्रीवैजात्ये सत्येव कार्यवैजात्यम्, सामग्रीवैजात्यञ्च सामग्र्यां विभिनकारणघटितत्वे सत्येवेति अनुगतव्यावृत्तिबुद्धयोरेककारणप्रभवत्वे सामग्रीवैजात्याभावाद् विजातीयत्वं न स्यादतो नैकहेतूद्भवे ते अभ्युपगन्तव्ये इत्याशयः। यदि चानुगत-व्यावृत्तिबुद्धयोः कुतश्चित् प्रमाणाद् वाधः स्यात्, तदा वाधितत्वेन भ्रान्तयोस्तयोर्दोषजत्वेन निर्विषययोर्न सामान्य-विशेषसाधकत्वम्, न चैवमपीत्याह-नवा निर्विषये एव दोषजे इति । वस्तुनोऽनुगतव्यावृत्तोभयात्मकस्य यस्तुल्यपरिणामलक्षणोऽनुगतस्वभावस्तेनानुवृत्तिबुद्धेः यश्चातुल्यपरिणामलक्षणो व्यावृत्तिस्वभावस्तेन व्यावृत्तिवुद्धश्चोत्पादसम्भवेन नैतदनु