________________
नय रहस्यग्रकरणम् ।
व्यवहारान्यतरप्रदेश इति चेत्, न-तृतीयपक्षाश्रयणे दोषाभावात्, उपधेयसाङ्कर्येऽप्युपाध्योरसाङ्कर्यात् ।
६१
स्यादेवेत्यर्थः । समाधत्ते-नेति । तृतीयेति प्रथमपक्षः स्वतन्त्रसामान्यविशेषाभ्युपगमलक्षणः शबलतदुभयाभ्युपगमलक्षणो द्वितीयपक्षः, तौ प्रथम द्वितीयपक्षौ नाश्रीयेते किन्तु गौण - मुख्यभावेन सामान्यविशेषोभयाभ्युपगमो नैगम इति तृतीयपक्ष एवाश्रीयते, तत्र दोषाभावादित्यर्थः । ननूक्त एव संग्रह व्यवहारान्यतरप्रवेशलक्षणो दोष इत्यत आह- उपधेयसाकर्येऽपीति - गौणतया विशेषावगाही प्रधानतया सामान्यावगाही योऽभ्युपगमः स संग्रहलक्षणाक्रान्तत्वात् संग्रहो नैगमलक्षणाक्रान्तत्वान्नैगम इति गौणतया सामान्यावगाही प्रधान - तया विशेषावगाही योऽभ्युपगमः स व्यवहारलक्षणाक्रान्तत्वाद् व्यवहारो नैगमलक्षणाक्रान्तत्वान्नैगम इत्येवमुपधेययो नैगमत्व-संग्रहत्वयोर्नैगमत्व व्यवहारत्वयोरेकाधिकरणवृत्तित्वलक्षणसाङ्कर्येऽपीत्यर्थः। उपाध्योः नैगमत्वत्व-संग्रहत्वत्वयोर्नैगमत्वत्व-व्यवहारत्वत्वयोः । असाङ्कर्यात् एकाधिकरणावृत्तित्वाद, यतो यः प्राधान्येन सामान्यावगाहित्ये सति गौणतया विशेषावगाही अध्यवसायः, यश्च प्राधान्येन विशेषावगाहित्वे सति गौणतया सामान्यावगाही अध्यवसायस्तदुभयवृत्तिमयत्वन्यूनवृत्तिजातिमत्त्वं नैगमत्वम्, प्राधान्येन सामान्यावगाही गौणतया विशेषावगाही योऽध्यवसायस्तन्मात्रवृत्तिनयत्वन्यनवृत्तिजातिमत्त्वं संग्रहत्वम्, प्राधान्येन विशेषावगाही गौणतया सामान्यावगाही योऽध्यवसायस्तन्मात्रवृत्तिनयत्वन्यूनवृत्तिजातिमत्त्वं व्यवहारत्वमिति भिन्नरूपे नैगमत्वे नैगमस्वत्वं वर्तते, तद्भिन्नस्वरूपे व्यवहारत्वे व्यवहारत्वत्वं वर्तते, तथा तदुभयभिन्नस्वरूपे संग्रहत्वे संग्रहत्वत्वं वर्तत इति, यदि चाभिन्नत्वमेव साङ्कर्ये तदोपधेयसाङ्कर्येऽपीत्यस्य नैगम-व्यवहारयोर्नैगम संग्रहयोः साङ्कर्येऽपि उपाध्यो नैगमत्व व्यवहा रत्वयो नैगमत्व-संग्रहत्वयोरसाङ्कर्यादित्यर्थः ।
,