________________
प्रमोदाविवृतिसंवलितं
मेन निर्वहति । अथ स्वतन्त्रसामान्य विशेषोभयाभ्युपगमे कणादवद् दुर्नयत्वम् , शबलतदभ्युपगमे च प्रमाणत्वमेव, यथास्थानं प्रत्येकं गौणमुख्यभावेन तदुपगमे च सङ्ग्रहवलायविशेषवृत्तिनयत्वन्यूनवृत्तिजातिमत्त्वं नैगमनयलक्षणम् , अत्र सामान्याभ्युपगन्त्रध्यवसायेत्यादिलक्षणे संग्रहेऽतिव्याप्तिरतो विशेषस्याभ्युपगमविषयतयोपादानम्, विशेषाभ्युपगन्त्रध्यवसायेत्यादिलक्षणे व्यवहारेऽतिव्याप्तिरिति सामान्यस्याभ्युपगमविषयतयोपादानम्, 'नयत्वन्यूनवृत्ति' इत्यस्य जातिविशेषणतयाऽनुपादाने नयत्वजातिमादाय व्यवहाराही सर्वत्रातिव्याप्तिरिति तदुपादानम् । यत्किञ्चिन्नैगम व्यव. हारान्यतरत्वादिकमादाय व्यवहारादावतिव्याप्तिवारणाय 'जाति' इति। शकते-अथेति। कणादवदिति-कणादश्च वैशेषिकदर्शनसूत्रसूत्रणसूत्रधारो द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाख्यान पड् भावान् परस्परविभिन्नानेवाभ्युपगच्छति, अत्यन्तव्यतिरिक्तौ च सामान्यत-विशेषौ न सम्भवत इति तदभ्युपगमस्य दुर्नयत्वे तद्वतोऽपि कणादस्य दुर्नयत्वं तद्भेदोपचाराद् , अथवा 'कणादवद्' इत्यत्र कणादपदं कणादप्रवर्तितदर्शनपरम् , तस्य यथा दुर्नयत्वं तथा नैगमनयस्यापीत्यर्थः। शबलतदन्युपगमे च कथञ्चिदन्योऽन्याऽभिन्नसामान्य-विशेषोभयाभ्युपगमे च। प्रमाणत्वमेवेति-कथञ्चिदभिन्नसामान्य-विशेषोभयस्वरूपवस्त्वध्यवसायात्मकज्ञानत्वमेव प्रमाणत्वमिति तथाऽभ्युपगमे प्रमाणत्वमेव प्रसज्यत इतितलिजालेर्नयत्वव्याप्यत्वाभावानोक्तलक्षणस्य नैगमनये सम्भव इत्यर्थः । यथास्थानमिति-यत्र सामान्यस्य प्रधानतयोपगमस्तत्र विशेषस्य गौणतयोपगमः, यत्र च विशेषस्य प्रधानतयोपगमस्तत्र सामान्यस्य गौणतयोएगम इत्येवम्भूतप्रधान-गुणभावेन सामान्य-विशेषो. भयाभ्युपगमवृत्तिनयत्वव्याप्यजातिमत्त्वस्य नैगमलक्षणत्वे सामान्यस्य प्रधानतया विशेषस्य गौणतयाऽभ्युपगमरूपे संग्रहे विशेषस्य प्रधानतया सामान्यस्य गौणतयाऽभ्युपगमरूपे व्यवहारे चोक्तलक्षणगमनात् तयोरेव नैगमत्वमिति तदुभयव्यतिरिक्तनैगमनयो न