________________
E
नयरहस्यप्रकरणम् ।
असम्बद्धयोराधाराधेयभावे चातिप्रसङ्गादिति दिक् । एवमेभिः श्रुतोपदर्शितनिदर्शनै रेतेषां यथाक्रमं विशुद्वत्वमवसेयम् ।
अथैतेषां लक्षणानि वक्ष्यामः - निगमेषु भवोऽध्यवसायविशेषो नैगमः, तद्भवत्वं च लोकप्रसिद्धार्थोंपगन्तृत्वम्, लोकप्रसिद्धिश्च सामान्य विशेषाद्युभयोपगकाशप्रदेशेषु देवदत्तवसतिः स्यात् तद्भिन्नप्रदेशादिष्वपि तत्प्रसङ्गो नियामकाभावादित्याह- असम्बद्धयोरिति ।
1
उपसंहरति- एवमिति । एभिः प्रदेश प्रस्थक-वसतिभिः । एतेषां नैगम-व्यवहार- सङ्ग्रहर्जुसूत्र - शब्द- समभिरूढैवम्भूतानाम् । यथाक्रमं दशितक्रममनतिक्रम्य, नैगमादिषु पूर्वपूर्वापेक्षयोत्तरोत्तरस्य विशुद्धत्वमुक्तनिदर्शनैरवगन्तव्यमित्यर्थः ।
·
५९
इदानीं नैगमादीनामसाधारण स्वरूपाणां लक्षणानां निरूपणमधिकरोति- अथेति-नयसामान्यलक्षण- तदुपपादन- तद्विषयव्यवस्थापनानुकूलस्याद्वादविषयवस्तुजात्यन्तरत्वव्यवस्थापन- तत्सामान्यविभजनतदवान्तर विभजन- प्रदेश प्रस्थक वसतिदृष्टान्तहढी कृतनैगमादिसप्तनयविशुद्धितारतम्यनिरूपणानन्तरमित्यर्थः । एतेषां नैगमादिसप्तनयानाम् । तत्र प्रथमोद्दिष्टं नैगमं लक्षयति-निगमेष्विति । तद्भवत्वञ्च निगमभवत्वञ्च। ‘सामान्यविशेषादि०' इत्यत्रादिपदाद् नित्याऽनित्य-भेदाभेदादिपरिग्रहः । तथा च सामान्य विशेषोभयाभ्युपगन्त्रध्यवसायविशेपत्वं नैगमनयत्वमिति नैगमनयलक्षणम्, एवं भेदाभेदोभयाभ्युपगन्त्रध्यवसाय विशेषत्वादिकमपि तलक्षणम् । यद्यपि सामान्य विशेषोभयाभ्युपगन्त्रध्यवसाय विशेषत्वं न भेदाऽभेदोभयाभ्युपगन्त्रध्यवसायविशेषे, भेदाऽभेदोभयाभ्युपगन्त्रध्यवसायविशेषत्वं न सामान्य-विशेषोभयाभ्युपगन्त्रध्यवसायविशेषे इत्यव्याप्तिः, सामान्य-विशेषोभयभेदाभेदोभय- नित्याऽनित्योभयाद्यभ्युपगन्तृत्वं च न प्रत्येकं कापीति तथोपादानेऽसम्भव पवः तथापि सामान्य-विशेषोभयाभ्युपगन्त्रध्य