________________
प्रमोदाविवृतिसंवलितं
तवसतिव्यवहारस्तु प्रत्यासत्तिदोषाद् भ्रान्तिमूलकः । विवक्षिताकाशप्रदेशेष्वपि च वर्तमानसमय एव देवदत्तवसतिर्नातीताऽनागतयोः, तयोरसत्त्वात् प्रतिसमयं चलोपकरणतया तावदाकाशप्रदेशमात्रावगाहनासम्भवाच्चेति दिक् ।
५८
शब्द- समभिरूढैवम्भूतास्तु स्वात्मन्येव वसतिमङ्गीकुर्वते, नह्यन्यस्यान्यत्र वसतिसम्भवः, सम्बन्धाभावात्,
कारप्रसङ्गः। तत्रापि संस्तारकावच्छिन्नव्योमप्रदेशेष्वपि । तद्वसतिभणितिः देवदत्तवसतिव्यपदेशः, अयमभिप्रायः - व्योमप्रदेशास्त एव संस्तारकावच्छिन्नाः स्युर्येषु संस्तारकावगाहः एवञ्च संस्तारकेणैव नैरन्तर्यलक्षणसयोगाक्रान्तेषु तेषु कुतो देवदत्तसंयोगसम्भावनेति । एवं सति संस्तार के देवदत्तो वसति, गृहकोणे देवदत्तो वसतीत्याद्या व्यवहाराः कथं समर्थनीया इत्यत आह-संस्तारक -गृहकोणादाविति । प्रत्यासत्तिदोषाद् येष्वाकाशप्रदेशेषु देवदत्तस्य वसतिस्तत्प्रदेशसमीपतरवर्त्याकाशप्रदेशेषु संस्तारकस्यावगाहस्तत्सन्निहितप्रदेशा गृहकोणाव च्छिन्ना इत्येवं प्रत्यासत्तिलक्षणदोषात् । येष्वप्याकाशप्रदेशेषु तेष्वपि वर्तमानसमय एवेत्याह-विवक्षिताकाशप्रदेशेष्वपि चेति । तयोः - अतीताऽनागतयोः, न केवलं तयोर्वर्तमानदेवदत्तसमयेऽसत्त्वं किन्तु वर्तमानदेवदत्तस्याप्यतीतानागतयोरसत्त्वमेवेति बोध्यम् । यावत्स्वाकाशप्रदेशेष्वेकस्मिन् समये देवदत्तस्यावगाहो न तावत्स्वन्यसमये देवदत्तस्यावगाहसम्भवोऽणुपुञ्जात्मकस्य देवदत्तस्याणूनां चलस्वभावानां प्रतिसमयं चलितत्वसम्भवेनावस्थानासम्भवादित्याह - प्रतिसमयमिति ।
शब्दनयानामेतस्मिन् वक्तव्यमुपदिशति शब्देति । अङ्गीकुर्वते स्वीकुर्वन्ति । एवकारेणान्यत्र वसतेर्व्यवच्छेद आवेदितः, तत्र युक्तिपदर्शयति-नहीति । 'सम्बन्धाभावाद' इत्युक्तिश्च तादात्म्यातिरिक्तस्य संसर्गत्वास्वीकारनिबन्धना, यदि च सम्बन्धमन्तरेणैव विवक्षिता