________________
नयरहस्यप्रकरणम् ।
अन्यत्र हि वासार्थ एव तस्य न घटते । न चायं प्राग्वदुपचारमप्याश्रयते, अत एव मूले वृक्षः कपिसंयोगीत्यब्राप्येतन्मते मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ इति दिक् । ___ ऋजुसूत्रस्तु येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्ते. ब्वेव तद्वासमभ्युपैति । संस्तारके तद्वसत्युपगमे तु गृहकोणादावपि तदुपगमप्रसङ्गः। संस्तारकावच्छिन्नव्योमप्रदेशेषु तु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तत्रापि तद्वसतिभणितिः। संस्तारक-गृहकोणादौ देवद____ वसतिविषये सङ्ग्रहाभिप्राय प्रकटयति-सङ्ग्रहस्त्विति-अस्य 'अन्युपैति' इत्यनेनान्वयः । अन्यत्र संस्तारकारूढभिन्ने पुंसि । तस्य सङ्ग्रहस्य, मत इति शेषः । ननूपचाराद् यथा नैगम-व्यवहारयोः संस्तारकारूढभिन्ने वासार्थ उपपद्यते तथात्रापि स्यादित्यत आह-न चंति-'आश्रयते' इत्यनेनान्वयः। अयं सङ्ग्रहः । प्राग्वद् नैगम-व्यवहारवत् । अतएव उपचाराश्रयणाभावादेव । एतन्मते सङ्ग्रहमते । एवकारेण वृक्षपदस्य वृक्षकदेशे उपचारतो वृक्षैकदेशः कपिसंयोगीत्यर्थस्य व्यवच्छेदः ।।
एतद्विपये ऋजुसूत्रनयाभिप्रायं दर्शयति-ऋजुसूत्रस्त्विति-अस्य अभ्युपैति' इत्यनेनान्वयः। तेष्वेव देवदत्तावगाह्याकाशप्रदेशेष्वेव । द्वान देवदत्तवासात् । संस्तारके कुतो वसतिं नाभ्युपगच्छतीत्यपेक्षायामाह-संस्तारक इति । तद्वसत्युपगमे देवदत्तवसतिस्वीकारे । संस्तारके वसतिस्वीकारः संग्रहस्य संस्तारकेण सह देवदत्तस्य संयोगवलादेव, संयोगश्च नाखिलेन संस्तारकेणेत्युपचारोऽत्राग्यावश्यक इत्युपचारेण संयोगो देशाश्रयणेनैवेति गृहकोणादिभिः सममप्युपचारो देवदससंयोगस्य स्यादेवेति सङ्ग्रहस्य गृहकोणादावपि देवदत्तवसतिस्वी. कारप्रसङ्ग इत्याह-गृहकोणादावपीति। तदुपगमप्रसङ्गः-देवदत्तवसतिस्वी