________________
प्रमोदाविवृतिसंवलितं
लिपुत्रवासित्वेनैव व्यवहारादिति चेत् , सत्यम्-तत्र बहुकालप्रतिबद्धतद्गतगृहकुटुम्बस्वामित्वाद्यर्थे वासित्वपदोपचारेण तथाप्रयोगात् । वस्तुतो वसन्नेव वसतीति व्यवहारेणाभ्युपगमात् , अन्यथा नाद्य सोऽत्र वसतीति व्यवहारो न स्यात्। व्यवहारबलवत्त्वाबलवत्त्वेऽभ्यासानभ्यासाधीने इति नात्र निर्बलत्वाशङ्कापि युक्तति दिक् ।
सङ्ग्रहस्तु संस्तारकारूढ एव वसतीत्यभ्युपैति, प्रयागादिगतस्यापि पुंसः पूर्वकालीनपाटलिपुत्रनिवासाश्रयणेन पाटलिपुत्रनिवासित्वेन व्यवहारः, स तूपचारात् , मुख्यतस्तु वर्तमानकालीनपाटलिपुत्रनिवासकर्तृत्ववत एव तथाव्यवहार इति समाधत्तेसत्यमिति-भवता यदुच्यते तदुपचारतः सत्यमित्यर्धस्वीकारः। उपचारो ह्यन्याथै वर्तमानस्य पदस्यान्यत्रार्थे वृत्त्याश्रयणतो भवतीत्याकलयन्नाह-तत्रेति-पाटलिपुत्रनिवासित्वेन व्यवहार इत्यर्थः। तद्गतेतिपाटलिपुत्रगतेत्यर्थः । तथाप्रयोगात् पाटलिपुत्रे वसतीति प्रयोगात् , प्रयोगकाले पाटलिपुत्रभिन्नक्षेत्रे वर्तमाने पुरुषे पाटलिपुत्रेऽयं वसतीति प्रयोगस्य बहुकालप्रतिबद्धपाटलिपुत्रगतगृहकुटुम्बस्वामी पुरुषोऽयमित्यर्थः । मुख्यतस्तु व्यवहारेऽपि वसन्नेव वसतीत्याहवस्तुत इति । अन्यथा व्यवहारे मुख्यतो वसनेव वसतीत्यस्यानभ्युपगमे, अन्यत्र गतेऽपि पाटलिपुत्रे वसतीत्यस्य मुख्यतयाऽभ्युपगमे च। अन्यत्र गतेऽपि पुंसि पाटलिपुत्रवासित्वेन यो व्यवहारः स प्रबलः, तत्रैव नाद्य सोऽत्र वसतीति यो व्यवहारः स दुर्वल इति दुर्बलेन तेन प्रबलस्य तस्य बाधासम्भवान्मुख्यत एव तदुपपत्तावुपचाराश्रयणं न युक्तमिति न वाच्यम् -व्यवहारप्राबल्य-दौर्बल्ययोरभ्यासाऽनभ्यासाऽधीनत्वेन प्रकृते नाद्य सोऽत्र वसतीति व्यवहारस्याप्यभ्यस्ततया दौर्बल्यासम्भवेन तत्र निर्बलत्वस्य शङ्कितुमप्यशक्यत्वादित्याह-व्यवहारेति ।