________________
नयरहस्यप्रकरणम् ।
५५
प्रयोगे 'क' इत्याद्याकाङ्क्षाबाहुल्याबाहुल्यकृतं विशुविशुद्धिवैचित्र्यम्, अत एव वसन् वसतीति प्रयोगस्य व्युपरताकाङ्क्षत्वात् सर्वविशुद्ध नैगमभेदत्वमित्यपि वदन्ति ।
व्यवहारेऽप्ययमेवानुसरणीयः पन्थाः । नन्वत्र कथं वसन् वसतीति भेदः? पाटलिपुत्रादन्यत्र गतस्यापि पाद
प्रकारान्तरेण तत्र विशुद्धितारतम्योपपादकं मतान्तरमुपदर्शयतिप्रयोग इति लोके बसतीत्युक्तौ लोके क्व वसतीत्याकाङ्क्षा, तन्निवृत्यर्थ तिर्यग्लोके वसतीति प्रयोक्तव्यम् एवमपि तिर्यग्लोके क्व वसतीत्याकाङ्क्षा जायत एव तन्निवृत्त्यर्थ जम्बूद्वीपे वसतीति प्रयोक्तव्यम्, एवमग्रेऽपि तथा च प्रथमतो लोके वसतीत्युक्तौ निराकाङ्क्षयोधं यावद् यावत्य उत्तरोत्तरक्रमेण केत्याद्याकाङ्क्षाः, ततः क्रमेण तिर्यग्लोके वसतीत्यादिप्रयोगेऽल्पीयस्य एव ता इति यदपेक्षया केत्याद्याकाङ्काबाहुल्यं यत्र तत्र तदपेक्षयाऽविशुद्धिः, यदपेक्षया केत्याद्याकाङ्क्षाssवाहुल्यमर्थान्न्यूनसङ्ख्यकक्केत्याद्याकाङ्क्षा यत्र तत्र तदपेक्षया विशुद्धिरित्येवं विशुद्धयविशुद्धिवैचित्र्यं वोध्यम् । अत एव विशुद्धयविशुद्धिवैचित्र्यस्य केत्याद्याकाङ्गा बाहुल्याऽवाहुल्यकृतत्वादेव ।
वसति निदर्शनेन नैगमनये यथा विशुद्धयादिकं भावितं व्यव हारेऽपि तथैवेत्याह-व्यवहारेऽपीति । अतिशुद्ध नैगमे यथा वसन् वसतीति प्रकारः, तथा स प्रकारो व्यवहारे न सम्भवतीति 'व्यवहारेऽप्ययमेव' इत्याद्युक्तिर्न संगतेति शङ्कते - नन्वत्रेति - अत्र 'न चात्र' इति पाठोऽशुद्ध एवेति वोध्यम् । अत्र व्यवहारनये । कथमित्याक्षेपे - वसन् वसतीति भेदो व्यवहारनये न सम्भवतीत्यर्थः । व्यवहारनयेन हि यथैव लोके व्यवहियते तथैवोपेयते वर्तमानकाले तत्रावसतोऽपि पूर्वका - लीनाधेयत्वमुपादाय वसतीति व्यवहारस्य दर्शनेन तत्र वर्तमानकालीनवसत्यभावादित्याह - पाटलिपुत्रादिति । भवतु पाटलिपुत्र भिन्न
,