________________
प्रमोदाविवृतिसंवलितं
चेत्, न-स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्धपदार्थ वोपग्रहात्, भेदविनिलठित एव वृक्षपदार्थ आश्रीयत इति चेत्, न-अनुभवबाधेन तथाश्रयणायोगादिति दिक् । तद्विनिर्मोकः कात्यविनिर्मोकः, पदशक्तिर्नाद्रियते येन पदशक्त्या देशसमुदितिरूपपदार्थोपस्थितितस्तत्समुदितिरूपवृक्षपदार्थे कपिसंयोगाऽन्वयानुपपत्त्यैकदेशे तदन्वयार्थमुपचारः स्यात्, किन्तु वृक्षात्मकपदार्थोपग्रहत एव तत्रान्वयबोध उपेयत इत्येतावतैव काय॑विनिर्मोक आगत इत्याशङ्कते-पदशक्त्यनुपग्रहादिति-तद्विनिर्मोक इत्यनुवर्तते। नहि पदशक्तिमन्तरेणैव तत्र वृक्षपदार्थोऽकस्मादापतितो येन पदार्थोपग्रहत एवान्वयबोधोपपत्तिर्भवेत् , पदार्थोपग्रहेऽपि वृक्षपदस्यैवार्थत्वात् पदार्थ इति स्यात् , स्कन्धपरस्य वृक्षपदस्य तु एकत्वपरिणतिरूपस्कन्ध एव पदार्थस्तदुपग्रहे पदशक्त्युपग्रहः स्यादेव, तथा च पदशक्त्यनुपग्रहेऽन्वयबोधलक्षणः शाब्दबोधो न भवेदेव, तथा च या पदशक्तिः कृत्स्ने वृक्षस्वरूपे तां परित्यज्य यैकदेशे तच्छक्तिरेवान्वयबोधानुकूलतया प्रकृते आश्रयणीया, कृत्स्नशक्तिपरित्याग एव च कात्यविनिर्मोकः, एकदेशशक्तिरेव चोपचार इत्यागतोऽसि मार्गे इत्याशयेन समाधत्ते-नेति । स्कन्धपरस्य स्कन्धशक्तस्य । एकत्वेन परिणतः स्कन्धो न वृक्षपदार्थः, येन स्कन्धस्य देशसमष्टिरूपतया भेदोऽपि तत्र प्रविशेत् , सर्वदेशेषु च कपिसंयोगाभावेनान्वयानुपपत्त्या देशविशेषाश्रयणमपि कर्तव्यं स्यादियुपचारः स्यात् , किन्तु भेदविनिर्मुक्ताखण्डवृक्षस्वरूप एव वृक्षपदार्थः, तत्रैव च कपिसंयोगान्वय इति नोपचाराश्रयणमित्याशङ्कते-भेदविनिलुठितेति । न खलु शाखा-मूलाद्यवयवभेदविनिर्मुक्तोऽखण्डवृक्षावयविरूपपदार्थोऽनुभूयते, अवयवसमुदायसमन्वितस्यैवावयविनोऽनुभवादित्यखण्डवृक्षपदार्थाश्रयणं मनोरथमात्रमिति समाधत्ते नेति । तथाश्रयणायोगाद् मेदविनिटुंठितवृक्षपदार्थाश्रयणासम्भवात् ।