________________
नयरहस्यप्रकरणम्।
५३
वसामीत्यन्वयस्यैवानुपपत्तिः, नहि कृत्स्ने लोके देवदत्तवसतिरस्ति, न च विनोपचारं कृत्स्नलोकरूढाल्लोकपदात् तद्देशोपस्थितिरस्ति । हन्त, एवं वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादिति चेत्, कः किमाह, स्यादेव । कास्न्यविनिर्मोकेणान्वयोपपत्तौ किमुपचारेणेति चेत्, देशाग्रहे तद्विनिर्मोक एव कथम् १ पदशक्त्यनुपग्रहादितिश्रयणे । कथमनुपपत्तिरित्यपेक्षायामाह-नहीति-हि यतः, कृत्स्ने लोके देवदत्तवसतिर्नास्तीत्यन्वयः । एतावतोपचाराधयणस्यावश्यकत्वं न स्पष्टं प्रतीयत इत्यत आह-न चेति-अस्य ‘अस्ति' इत्यनेनान्वयः, कृत्स्नलोके देवदत्तवसत्यभावे लोके वसामीत्यन्वयोपपत्तिस्तदैव स्याद् यदि लोकपदं लोकैकदेशे गृहकोणे लाक्षणिकमभ्युपगम्येत, लक्षणा चोपचार एवेत्याशयः। ननु वृक्षऽपि सम्पूर्ण कपिसंयोगो न वर्तते किन्तु वृक्षकदेशे शाखायामेव कपिसंयोग इति वृक्षपदस्य वृक्षैकदेशे शाखायां लक्षणारूपोपचाराश्रयण एव वृक्षे कपिसंयोग इत्यस्योपपत्तिरित्युपचारस्तत्रापि स्यादित्याशङ्कते-हन्त, एवमिति । तत्राप्युपचार इष्ट एवेति समाधत्ते-कः किमाहेति-वृक्षे कपिसंयोग इत्यत्र नोपचार इति नाहं कथयामि येन मां प्रतीदमापादनमनिष्टतया भवता क्रियेत । तथा चेष्टापादनमेवेदमित्याह-स्यादेवेति-वृक्षे कपिसंयोग इत्यत्रोपचारः स्यादेवेत्यर्थः । स्यादेवम्' इति पाठादरे तु कः किमाह इत्यत्रयोत्तरसमाप्तिः, 'स्यादेवम्' इति त्वतनप्रश्नघटकमेव, तत्र एवं स्यात् 'कात्यः' इत्यादिना यदाशङ्कयते तत् स्यादित्यर्थः । कात्स्न्येति -वृक्ष कपिसंयोग इत्यत्र कात्न्यं वृक्षविशेषणतया नोपात्तमस्ति येन कृत्स्नदृक्ष कपिसंयोगाभावादन्वयानुपपत्तिः स्यादित्यन्वयानुपपत्त्यभावादुपचाराश्रयणं तत्र न कर्तव्यमेवेति प्रष्टुरभिप्रायः। वृक्षपदस्य वृक्षैकदेशे उपचारे सत्येव कात्यविनिर्मोको नान्यथेति 'काय विनिर्मोकेण' इत्युक्त्यैवोपचार आगत इत्याशयेन समाधाता पृच्छति-देश ग्रह इति-वृक्षपदेन वृक्षदेशशाखाद्यनुपस्थितावित्यर्थः ।