________________
प्रमोदाविवृतिसंवलितं
न्यायवद् गौणमुख्यविषयकृतोविशेषोऽस्तीति चेत्,सत्यम्देवदत्तसंयोगपर्यायपरिणतगृहकोणक्षेत्रस्याखण्डक्षेत्राद् धर्मभेदावेशेन पृथक्कृतस्य यथाक्रमं गुरु-गुरुतरविषये भेदोपचारेण विशुद्धचपकर्षसम्भवात् , अन्यथा लोके प्रस्थके चोपचाराऽनाश्रयणान्मुख्यतासम्प्रत्ययस्तत्कृतं विशुद्धितारतम्यं न तथा प्रकृते गौण-मुख्यनिमित्तं समस्तीत्याह-नहीति-अस्य 'विशेषोऽस्ति' इत्यनेनान्वयः। अत्र आधारतायाम् । समाधत्ते-सत्यमिति-स्थूलदृष्टौ विशेषाऽनाकलनाद् भवदाशङ्कितं स्यादेव युक्तम् , किन्तु सूक्ष्मेक्षिकायां विशेषोऽवभासत एव, ततश्च विशुद्धितारतम्यं स्वीकरणीयमेवेत्याशयेनाह-देवदत्तेति-देवदत्तस्य गृहकोणक्षेत्रेण यः संयोगः स न पराभिमतो गुणः किन्तु पर्याय एव, तद्रूपेण परिणतं यद गृहकोणक्षेत्रं तस्य । कथम्भूतस्य तस्येत्यपेक्षायामाह-अखण्डक्षेत्राद् लोकस्वरूपात् । पृथवकृतस्य पृथक्त्वलक्षणभेदं प्राप्तस्य । विरुद्धधर्माध्यासाद् भेदो भवतीति नियमेनाखण्डलोकलक्षणक्षेत्राद् बह्वाकाशप्रदेशव्यापिनस्तदपेक्षयाऽल्पाकाशप्रदेशव्यापित्वलक्षणधर्मभेदेन पृथकरणमस्येति पृथक्करणनिमित्तमाह-धर्मभेदावेशेनेति-धर्मधर्मिणोरमेदाद् धर्मभेदे धर्मिभेद इति धर्मभेदावेशोऽपि विरुद्धधर्माध्यास एवेति बोध्यम् । यथाक्रममिति-'लोके तिर्यग्लोके' इत्यादिना यः क्रम उपदर्शितस्तत्र योऽन्तिमस्तत्पूर्वपूर्वसमाश्रयणेन यः क्रमस्तमनतिकम्येत्यर्थः । गुरु-गुरुतरविषय इति-विषयपदेन देशो विवक्षितः, तथा च गृहकोणापेक्षया गृहमध्यगृहं गुरुदेशस्तदपेक्षया देवदत्तगृहं गुरुदेशस्तदपेक्षया पाटलिपुत्रो गुरुदेश इत्येवं क्रमेण गुरु-गुरुतरविषय इत्यर्थः। भेदोपचारेणेति-गृहकोणभेदो मध्यगृहे तभेदो देवदत्तगृहे तभेदः पाटलिपुत्रे इत्येवं भेदोपचारेणेत्यर्थः । विशुद्धयपकर्षसम्भवादितिगृह कोणे देवदत्तस्य संयोगपर्यायलक्षणाधारतारूपा वसतिनिरुपचरिता समस्तीति तत्र या विशुद्धिस्तदपेक्षया मध्यगृहवसत्यादावपकृष्टा सेत्येवं विशुद्धयपकर्षसम्भवादित्यर्थः । अन्यथा उपचाराऽना