________________
उद्देश्यताविधेयताविचारः ]
[ ७३ मितौ साध्यप्रसिद्धेः प्रतिबध्यतावच्छेदकं दुर्वचम् । तथाहिइतरभेदज्ञानस्य प्रतिबध्यतावच्छेदकं यदीतरभेदविशेष्यकानुमितित्वं तदा इतरभेदः पृथिवीव्याप्यवानि'त्यादिपरामर्शजन्येतरभेदपक्षकानुमितौ व्यभिचारः । इतरभेदविधेयकत्वे सति तद्विशेष्यकानुमितित्वस्य प्रतिवध्यतावच्छेदकत्वेऽपि 'पृथिवीतरभेदव्याप्यवतीतरभेदः पृथिवीव्याप्यवानि'त्याद्याकारकसमूहालंबनजन्यायाः 'पृथिवीतरभेदवती पृथिव्यामितरभेद' इत्येतादृशसमूहालंबनानुमितौ व्यभिचारः, तादृशानुमितेरितरेतरभेदविधेयकत्वात् तद्विशेष्यकत्वाच्च । मन्मतेऽत्र प्रकारताभिन्नेतरभेदविधेयतेवेतरभेदज्ञानप्रतिवध्यतावच्छेदिकेति न व्यभिचारः । तादृशसमूहालंबनानुमितिनिरूपितेतरभेदविधेयतायाः प्रकारतारूपतया तदन्यत्वाभावादिति चेत् ?
__न, इतरभेदविशेष्यकपरामर्शाजन्येतरभेदविशेष्यकानमितित्वस्यैव मन्मते इतरभेदज्ञानप्रतिबध्यतावच्छेदकत्वोपगमात् । 'पृथिवीव्याप्यवानितरभेद'इत्याद्याकारकपरामर्शजन्यानुमिते. श्वेतरभेदविशेष्यकपरामर्शजन्यत्वेन व्यभिचारानवकाशात् । न चैतादृशगुरुधर्मस्य साध्यसिद्धिप्रतिबध्यतावच्छेदकत्वे गौरवात् 'पृथिवीतरभेदवती'त्याद्याकारकानमितिनिरूपितप्रत्यक्षादिसाधारणेतरभेदादिप्रकारतायां विधेयतात्वकल्पनमेवोचितमिति वाच्यम् . तथा सति धर्मितावच्छेदकभेदेनानन्त
१-'मर्शाऽजन्य' इति दे।