________________
७२ ]
[ विषयतावादे
एवोचितत्वादिति चेत् ? न, प्रत्यक्षादिसाधारणप्रकारताया विधेयत्वांगीकारेऽनमित्यादिस्थले वाधबुद्धयादीनां प्रतिबंधकतायां इच्छाधीनप्रत्यक्षे व्यभिचारवारणाय प्रत्यक्षान्यत्वस्य प्रतिबध्यतावच्छेदककोटौ निवेशे गौरवप्रसंगात् । मन्मते तु विधेयताया एव तादृशप्रतिवध्यतावच्छेदककोटी निवेशनीयतया तस्याश्च प्रत्यक्षसाधारण्याऽनभ्युपगमे '(अनाहार्यप्रत्यक्षे) व्यभिचारविरहेण प्रत्यक्षान्यत्वस्याऽनिवेशात् । न च परोक्षत्वजातेः प्रतिबध्यतावच्छेदकत्वोपगमेनैवाहार्यप्रत्यक्ष व्यभिचारवारणसंभवेन मयापि प्रत्यक्षान्यत्वं न निवेश्यत इति पाच्यम् , परोक्षत्वजातेरन्यत्र दूषितत्वात् ।।
अथ लाघवेनातिरिक्तविषयतासिद्धेः प्रागेव निरस्तत्वात् कथमेतादृशयुक्त्यातादृशानुमित्यादावतिरिक्तविधेयता सेत्स्यतीति चेत् ? न, एतादृशयुक्त्यैतादृशविषयता न कल्प्यते, किन्तु, 'पर्वते वह्निः पृथिव्यामितरभेदः' इत्याद्याकारकशाब्दानुमित्यादौ पूर्वोक्तयुक्त्या सिद्धस्य विषयताविशेषस्य 'पर्वतो वह्निमान्' 'पृथिवीतरभेदवती'त्याद्याकारकानुमित्यादावेताहशलाघवेन संबंधः कल्प्यते इति न काचिदनुपपत्तिरिति ।
अथ 'पृथिव्यामितरभेद', 'इतरभेदवती पृथिवी'त्याद्या. कारकानुमित्योरे'तादृशविधेयतास्वीकारे साध्यविशेष्यकानु
१-अधिकोऽयं पाठः दे० प्रतौ । २- रेकविधे०' इति दे ।