________________
उद्दे त्यताविधेयताविचारः ]
[ १ यदि च विशेषणविशेष्ययोरेवोद्देश्यविधेयभावस्तदा तत्र गुणत्वस्यो'द्देश्यतावच्छेदकतया गुणवृत्तित्वस्य विशेषणतया गुणत्वस्याऽतथात्वेन तदसंगतमेव स्यादिति विधेयत्वादीनां प्रकारताविशेषादिरूपत्वे 'इतरव्यापकीभूताभावप्रतियोगिमती पृथिवी'त्यादिपरामर्शजन्यायाः 'पृथिव्यामितरभेद' इत्याद्याकारकायाः साध्यविशेष्यकानुमितेस्तविधेयकत्वानुपपत्या तदुत्तर मितरभेदं नानुमिनोमी'त्याद्यनुव्यवसायाऽऽपत्तिः ।
__ न च तादृशज्ञानीयेतरभेदविशेष्यतायामेव विधेयतात्वोपगमान्न . तादृशानुमितेरितरभेदादिविधेयकत्वानुपपत्तिरिति वाच्यम् , तथा सति 'पृथिवीव्याप्यवानितरभेद' इत्याद्याकारकपरामर्शजन्याया 'आधारतासंबंधेन पृथिव्यादिसाध्यकतथाविधानुमितेरपीतरभेदादिविधेयकत्वोपपत्तेस्तथाविधानुमित्यो-- वैलक्षण्याभावप्रसंगात् । ____अथ 'पर्वते वह्नि'रित्यादिशाब्दबोधे 'पृथिव्यामितरभेद' इत्याद्यनुमितावतिरिक्तविधेयत्वादिसिद्धावपि 'पर्वतो वह्निमान् , पृथिवीतरभेदवती'त्याद्याकारकानुमित्यादौ प्रकारतातिरिक्तविधेयत्वादौ मानाभावः, वन्यादिवृत्त्यै कैकप्रकारत्वादिनिरूपकीभूतानंतानुमित्यादिव्यतिरिक्त विधेयतासंबंधकल्पनापेक्षया तादृशप्रकारत्वादौ विधेयतात्वादिकल्पनाया
१- विशेष्यताव०' इति दे० । २- तदत्यन्ताऽ०' इति० दे० । ३- आधेयता०' इति दे० ४-'विषयता०' इति दे० ।