________________
७० ]
[ विषयतावादे
मानाभावात् तत्र विधेयतात्वस्वीकारे तथाविधानुमितिदशायां 'वह्नि 'नानुमिनोमी'त्यनुव्यवसायानुपपत्तितादवस्थ्यमिति पाच्यम्, 'वह्निमान् पर्वतो घटवानि'त्यादिज्ञानीयवह्निप्रकारताया घटादिप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतानिरूपिततया 'पर्वतो वह्निमानि'त्येतादृशज्ञानीयवह्नयादिप्रकारतायाश्चातथात्वेऽनयोर्भेदस्यावश्यकत्वादिति चेत् ?
मैवम् , प्रकारत्वाद्यतिरिक्तविधेयत्वादीनामनभ्युपगमे 'पर्वते वह्नि'रित्यादिवाक्यजन्यशाब्दबोधस्य वहन्यादिविधेयकत्वपर्वतोद्देश्यकत्वानुपपत्तिरित्यतिरिक्तविधेयत्वादिकल्पन' मावश्यकम् ।
न च 'पर्वतो वह्निमानि तिवत्तत्र नास्त्येव पर्वतवहन्योरुद्देश्यविधेयभावः, किंतु विशेषणविशेष्यभावापन्नयोर्वह्निपर्वतवृत्तित्वयोरेवेति वाच्यम्, शाब्दबोधस्थले प्रागनिर्दिष्टस्यैवोद्देश्यतया चरमनिर्दिष्टपदार्थस्यैव विधेयतया तादृशवाक्यजन्यशाब्दबोधे वह्निपर्वतवृत्तित्वयोरुद्देश्यविधेयभावाऽसंभवात् , अन्यथा 'वह्निः पर्वते' 'पर्वते वह्नि'रित्येतादृशवाक्यजन्यशाब्दबोधयोर्विशेषणविशेष्यभावाऽवलक्षण्येन वैलक्षण्यानुपपत्तेः । अत एव 'गुणानां गुणत्वमि'त्यत्र गुणत्वस्यैवोद्देश्यतावच्छेदकत्वं तस्यैव विधेयत्वमित्यभिप्रायेणोपाये उपायकृतोद्देश्यतावच्छेदकत्वविधेययोर क्ये शाब्दबोधानुपपत्तिरा. ऽऽशंकिता।
१-'मनु' इति दे० २-'वाच्यम्' इति नास्ति दे ।