________________
[ विषयतावादे
बाधबुद्ध्यादिप्रतिबंधकतायां प्रतिबध्यतावच्छेदककोटौ प्रत्यक्षान्यत्व निवेशेन गौरवात्तदपेक्षया धर्मिविशेषामिश्रितसाध्यप्रसिद्धिप्रतिबंधकतायां तादृशधर्मस्य प्रतिबध्यतावच्छेदककोटिनिवेशनौचित्यादिति ।
७४ ]
एवमापत्तिस्थले आपाद्यत्वमपि विषयताविशेषः । आपत्तिनिरूपितप्रकारतासामान्यस्यापाद्यता रूपत्वे 'वह्निमान् पर्वतो घटवान् स्यादित्याद्याकारकापत्तेरपि वयादेरापाद्यतापत्तेः । 'पर्वतो वह्निमानित्याद्याकारकवह्नयाद्यनवच्छिन्नविशेष्यताशालिज्ञानीय विलक्षणवह्नयादिप्रकारतायास्तत्त्वोपगमेऽपि 'वह्निमान् पर्वतः पर्वतो घटवान् स्यादित्याद्याकारकापत्तौ वह्वयादेस्तथात्वापत्तेदु' वरित्वात् । अथ स्वव्यतिरेकनिर्णयजन्य तदापत्तिविषयत्वमेव स्वस्य तदापत्तिनिरूपितमापाद्यत्वमस्तु, किमतिरिक्तविषयता स्वीकारेण ? उक्तसमूहालम्बनापत्तौ घटव्यतिरेक निर्णयस्यैव हेतुतया वयादेस्तदापाद्यत्वाऽसंभवादिति चेत् ? न तादृशव्यतिरेकनिर्णय जन्यत्वाद्यनुपस्थितावपि वह्वयादिनिष्ठापाद्यत्वावगाहिंनो 'वह्निमापादयामी' त्याद्यनुव्यवसायस्यानुभवसिद्धतयाऽऽपाद्यत्वस्य स्वव्यतिरेकनिर्णयजन्यतदापत्तिविषयरूपत्वाऽसंभवात् ।
अथ वयादिप्रकारकापत्तित्वमेव तादृशानुव्यवसायविषयः, तादृशधर्म' प्रकारतात्वावच्छिन्नविषयतासंबंधन ताह
१ प्रकारतानिरूपित वि०' इति दे. |