________________
न्यायाचार्य-महोपाध्यायश्रीमद्यशोविजयगणिविनिर्मितः
॥ विषयतावादः ॥ ॥ एँ नमः ।। 'विषयता स्वरूपसंबन्धविशेषो ज्ञानादीनां विषये, न त्वतिरिक्ता मानाभावादिति प्राश्चः । तदसत् । तथाहि-विषयताया ज्ञानस्वरूपत्वे घटवद्भूतलमित्यादिज्ञाननिरूपितानां घटभूतलादिवृत्तिविषयतानामभेदापत्त्या तादृशज्ञानानंतरं 'घटप्रकारकज्ञानवानहमि'त्यादिप्रतीतिवद् 'भूतलप्रकारकज्ञानवानहमित्यादि प्रतीतिप्रसङ्गः, घटनिष्ठप्रकारत्वा'. ख्यतज्ज्ञानरूपविषयताया एव भूतलवृत्तित्वात् । एवं 'घटपटावि'त्यादिसमूहालम्बनधियो भ्रमत्वापत्तिः । पटनिष्ठतज्ज्ञानरूपविशेष्यतायाः * तज्ज्ञानरूपघटत्वप्रकारतानिरूपितघटविशेष्यताऽभिन्नत्वेनतादृशज्ञानस्य घटत्वप्रकारतानिरूपित पटविशेष्यताशालित्वात् ।
विषयस्वरूपत्वे च घटभूतलसंयोगा इत्याद्याकारकसमूहालम्बनविशिष्टबुद्धयोर्वैलक्षण्यानुपपत्तेः । न च विशिष्टज्ञाने संबन्धसंबन्धोऽपि भासते न समूहालम्बने इत्यत एव तयोर्वैल
१-'विषयता च' इति दे. प्रतौ । २-'प्रत्ययप्रसङ्गात्' इति दे० ३-'प्रकारत्वाख्ये' इति दे०। ४-पत्तिश्च' इति दे० । ** चिह्नद्वयान्तर्गतपाठस्थाने घटनिष्ठघटत्वप्रकारतानिरूपिता तज्ज्ञानरूपविशष्यत्वामिन्नतया' इति पाठः दे०। ५-'पटनिष्ठ०' इति दे।