________________
६० ]
[विषयतावादे
क्षण्यमुपपत्स्यते इति वाच्यम् . संबम्धसबम्धमादायापि समूहालम्बनसंभवात् । तस्माद् ज्ञानविषयाभ्यामतिरिक्तमेव विषयत्वमित्यनन्यगत्या स्वीकरणीयम् । तच्चाश्रयतया विषये ज्ञाने च निरुपकतासंबंधेन वर्तत इति ।
एतेन विषयित्वमपि व्याख्यातम् । न च विषयताप्रतियोगित्वमेव विषयित्वमस्तु, किं तस्यातिरिक्तत्वस्वीकारेण ? इति वाच्यम् , विषयित्वमेवातिरिक्तं तत्प्रतियोगित्वमेव विषयत्वमित्यस्यापि वक्तु शक्यत्वात् तस्माद् विनिगमनाविरहेणोभयमेवातिरिक्तम् । विषयत्वादिकं तु विषयभेदेन भिद्यतेऽन्यथा 'घटवद्भूतलमित्यादि'ज्ञानीयघटभूतलादिविषयतानां 'घटापटावि'त्यादि'ज्ञानीयघटपटादिविषयतानां चाभेदप्रमङ्गेन पूर्वोक्तानुपपत्तितादवस्थ्यात् । न तु ज्ञानव्यक्तिभेदेनापि तद्भेदो, मानाभावात् । । तच्च द्विविधम् , किंचिद् विषयत्वाऽनिरूपितं तनिरूपितं च । तत्र निर्विकल्पकनिरूपितविषयता विषयत्वानिरूपिता निर्विकल्पकीयघटत्वादिविषयताया घटादिविषयतानिरूपितत्वे मानाभावाद् । विशिष्टबुद्धिविषयता च विषयत्वांतरनिरूपिता, प्रकारताविशेष्यतासंसर्गतारूपाणां तासां परस्परं निरुप्यनिरूपकभावसत्त्वात् । अन्यथा 'घटवद् भूतलम् पर्वतो वह्निमानि'
१-'दिजातीय'० इति दे० । २- दिविजातीय' इति दे ।