________________
५८]
[ वादमालायां
यत्त तत्तद्रव्यविषयकतत्समवेतचाक्षुषत्वावच्छिन्नं प्रति तत्तद्रव्यचक्षुःसंयोगत्वेन हेतुत्वेऽपि यत्र द्वित्रिक्षणावस्थायिघटादिव्यक्तिषु न द्वित्वाधुत्पत्तिः, संयोगस्तु योग्यो यावदाश्रयसन्निकर्षदशायां न जातस्तत्रैव द्रव्यचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयोगत्वेन हेतुत्वं कल्प्यते लाघवात् , न हि तत्तद्वयक्तिचक्षुःसंयोगदशायामपि तत्समवेतस्य कस्यचिन्न प्रत्यक्षं येन तत्राप्युक्तविशेषहेतुता कल्प्येतेति,
तत्तुच्छम् , तथा सति द्वित्रिक्षणावस्थायिघटादीनां रूपसंख्याप्रत्यक्षानुरोधेन द्रव्यसमवेतचाक्षुपं प्रति चक्षुःसंयुक्तसमवायत्वेन हेतुत्वावश्यकत्वे चक्षुःसंयोगहेतुताऽसिद्धेरिति दिक् । अत्र द्रव्यचाक्षुषे चक्षुःसंयोगस्य कार्यतावच्छेदकः सम्बन्धो न विषयत्वमात्रम् , "चैत्रस्यायं पुत्र" इत्यादिचाक्षुषे चैत्रायंशे व्यभिचारात् , किन्तु लौकिकत्वाख्योऽविषयताविशेषः, अवच्छेदकधर्मविधयेवाऽवच्छेदकसम्बन्धविधयापि पदार्थसिद्धेः ।। [इति सन्निकर्षवादः]]
॥ इति वादमाला ॥
卐