________________
सन्निकर्षवादः ]
तच्चक्षुः संयोगत्वेन हेतुत्वस्याक्लृप्तत्वात्तदऽप्रत्यक्षतोपपत्तेरिति
चेत् ?
अत्र वदन्ति तत्तद्द्रव्यीय संख्या चाक्षुषत्वमेव तत्तद्द्रव्यचक्षुः संयोगत्वावच्छिन्नजन्यतावच्छेदकम्, न तु तत्तद्रव्यविषयक्रतत्समवेतचाक्षुषत्वं, गौरवात् । एकावच्छेदेन चक्षुः संयोगेऽप्यन्य देशावच्छिन्नसंयोगविभागयोः साक्षात्कारापच्या तदवच्छिन्नवृत्तिकचाक्षुषत्वावच्छिन्नं प्रति तदवच्छिन्नचक्षुःसंयोगत्वेन हेतुतायाः स्वातन्त्र्येणाऽऽवश्यकत्वात् । अस्तु वा तत्तद्घटीयगुणचाक्षुक्त्वावच्छिन्नं प्रत्येव प्रत्येकं तत्तद्घटचक्षुः संयोगत्वादिना हेतुत्वं, निरुक्तकार्यतावच्छेदकतयैव द्वित्वद्वि (दि) पृथक्त्वादिषु गुणत्वसिद्धेः । तथा च द्रव्यचाक्षुषे चक्षुःसंयोगस्य हेतुत्वमावश्यकमन्यथा विप्रकृष्टस्यापि घटादश्चाक्षुषत्वप्रसङ्गात् । एवञ्च परमाणुपिशाचप्रत्यक्षवारणाय रूपमहत्त्वयोरपि हेतुत्वमिति ।
[ ५७
-
·
तचिन्त्यं तदवच्छिन्नवृत्तिकचाक्षुषे तदवच्छिन्नचक्षुःसंयोगस्य पृथग्वेतुत्वे गौरवात् । अवच्छेदकतासमवायान्यतरसम्बन्धेन तत्तद्द्रव्यवृत्तितत्तद्द्रव्यविषयकचाक्षुषत्वावच्छिन्नं प्रति तत्तद्द्रव्यचक्षुःसंयोगत्वेन हेतुत्वौचित्यात् । अवच्छेदकाविषयक संयोगादिप्रत्यक्षोपपादनाय तदवच्छिन्नचक्षुः संयोगत्वेन पृथग्धेतुत्वे च कपालाविषयकघटप्रत्यक्षोपपादनाय चक्षुःसंयोगत्वेन पृथग्वेतुत्वमिति तु युक्तम् ।