________________
५४ ]
[ वादमालायां
मप्याश्रयचाक्षुषविरहादचाक्षुषत्वसंभवात् । तथा च द्रव्यचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयोगत्वेन हेतुत्वमायाति न तु संयुक्तसमवायस्य प्रत्यासत्तित्वमपीति न किञ्चिदेतदिति दिक् ।
स्वतन्त्रास्तु द्रव्यचाक्षुषं प्रत्येव चक्षुःसंयोगत्वेन हेतुत्वं न तु द्रव्यसमवेतचाक्षुषादौ चक्षुःसंयुक्तसमवायत्वादिना, गौरवात् । गुरुत्वत्वरसत्वगन्धत्वादिचाक्षुषवारणाय द्रव्यान्यसमवेतचाक्षुषत्वावच्छिन्नं प्रत्याश्रयचाक्षुषत्वेन हेतुत्वावश्यकतया तत एवातिप्रसङ्गात्तत्तज्जातित्वेन प्रतिबन्धकत्वपर्यवसितस्याऽयोग्यत्वस्य कल्पने गौरवात् । अत एव सत्यपि सन्निकर्षे निखातवंशादिपरिमाणगतवैजात्यस्य द्विहस्तत्वादेरग्रहः। परिमाणप्रत्यक्षं प्रत्यावरकद्रव्यसंयोगस्य विरोधितयाश्रयप्रत्यक्षविरहात् । न च तत्र परिमाणं गृह्यत एव, तद्गतवैजात्यं तु न गृह्यते, तद्ग्रह एवावरकसंयोगस्य विरोधित्वादिति वाच्यम् , एकत्रावरकसंयोगसत्त्वेऽप्यन्यत्र द्विहस्तवंशसन्निकण तादृशवैजात्यस्य प्रत्यक्षतया तद्ग्रहं प्रत्यावरकसंयोगस्य विरोधित्वासम्भवात् । न चैवमपि घटपरमाण्वोघंटाकाशयोर्वा संयोगस्य प्रत्यक्षं, परैरप्ययोग्यतया तस्य वारणीयत्वाद्दव्यान्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति महत्त्वविशिष्टरूपत्वावच्छिन्नाभावस्याखण्डस्य स्वाश्रयसमवेतत्वेन प्रतिबन्धकत्वेन तन्निराससम्भवाच्च । एवञ्च सत्यपि चक्षुःसन्निकर्षे प्रथमं घटस्यैव प्रत्यक्षं न तु घरत्वादेः, हेतुभूताश्रयचाक्षुपस्य प्रागसत्त्वात् । अनन्तरं