________________
सन्निकर्षवादः ]
__ [ ५५ घटत्वादिजातिरूपादिगुणानां, तदुत्तरं रूपत्वादेश्चाक्षुषं, पूर्वपूर्वाश्रयचाक्षषात्मकहेतुसम्पत्तेरित्यवश्यं निर्विकल्पकसिद्धिरपि, . सामग्रीविरहेण प्रागेव विशिष्टबुद्धयसम्भवात् । न च यत्र घटचा संयोगनाशदशायामेव घटस्य चाक्षुपं, तत्रेन्द्रियसन्निकर्षविगमोत्तरमपि क्रमेण तदीयरूपरूपत्वलौकिकचाक्षुषापत्तिः, कारणीभूताश्रयचाक्षुषस्य पूर्वपूर्व सत्त्वादिति वाच्यम् , द्रव्यचाक्षुषे चक्षुःसंयोगस्य कार्यसहवृत्तितया हेतुत्वेन तत्र घटस्यैव प्रत्यक्षानुपपत्तेरुक्तक्रमेण प्रत्यक्षस्वीकारेऽपि क्षत्य. भावाच्चेत्याहुः।
परे तु द्रव्यान्यद्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति नाश्रयचाक्षुषत्वेन हेतुता, तथा सति चक्षुःसंयोगस्येव महत्वस्यापि द्रव्यचाक्षुपं प्रति हेतुत्वकल्पनापत्तेः अन्यथा परमाण्वादेश्चाक्षुषत्वप्रसङ्गाद् , द्रव्यान्यद्रव्यसमवेतत्वयोर्विशेषणविशेध्यभावे विनिगमकाभावेन कार्यकारणभावद्वयापत्तेश्च, किन्तु द्वयणुकान्यवृत्तिगोचरचाक्षुषत्वावच्छिन्नंप्रतिद्वयणुकान्यवृत्तिवृत्तिविषयतया, चाक्षुषत्वावच्छिन्नं प्रत्येव वाऽऽश्रयचाक्षुषत्वेन हेतुत्वम् । तथा च द्वयणुकस्यापि द्वयणुकान्यसमवेतत्वादाश्रयचाक्षुषविरहादेवाप्रत्यक्षन्वसम्भवान्न महत्त्वापेक्षा । एवं च द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यपि चक्षःसंयुक्तसमवायत्वेनैव हेतुत्वं, न तु चक्षुःसंयोगत्वेन, परमाणोश्चाक्षुषत्वप्रसङ्गादिस्याहुः।