________________
सन्निकर्षवादः ]
[ ५३ त्तावपि तादृशविजातीयसंयोगस्य द्वयणुके स्वीकारे तद्गतरूपादिप्रत्यक्षापत्तिस्तत्र तदस्वीकारे च त्रुटेरचाक्षत्वापत्तिरिति त्रुटिचाक्षुषानुरोधेन द्रव्यचाक्षुषे चक्षुःसंयोगस्य हेतुत्वमावश्यकमिति बोध्यम् । एतेन विजातीयैकत्वनिवेशोऽपि व्याख्यातः ।
यसु गुरुत्वत्वस्य तद्वयाप्यतोलकत्वादेः स्पर्शत्वरसत्वादेश्चाक्षुषत्ववारणाय तादात्म्येन तत्तद्वयक्तित्वेन चाक्षुषप्रतिबन्धकत्वकल्पनामपेक्ष्य जातिचाक्षुषत्वावच्छिन्नं प्रत्याश्रयचाक्षुषस्य हेतुत्वमेव कल्प्यते लाघवात् । तथा च परमाण्वादिमात्रसन्निकर्षदशायामाश्रयचाक्षुषाभावादेव द्रव्यत्वाधचाक्षुषत्वोपपत्तेद्र व्यसमवेतचाक्षुषं प्रत्येव संयुक्तसमवायत्वेन हेतुत्वं निराबाधम् । न चैकजात्यायचाक्षुषादपरजातिप्रत्यक्षापत्तिः, विषयतया जातिचाक्षयं प्रति स्वाश्रयसमवेतत्वसम्बन्धेनाश्रयचाक्षुषस्य हेतुत्वात् । न च यत्र घटनाशदशायां घटस्य चाक्षुषप्रत्यक्षं, तदुत्तरं च पिशाचेन चक्षुःसंयोगस्तत्र द्रव्यत्वचाक्षुषप्रसङ्गः, आश्रयचाक्षुषसन्निकषयोः सत्वादिति वाच्यम्, इष्टत्वादिति मतम् । तदतिस्थवीयः । विनापि घटचाक्षुषं घटघटत्व योरेकदा निर्विकल्पकचाक्षुषोत्पत्त्या व्यभिचारात् ।
न च जातिचाक्षुषत्वमाश्रयचाक्षुषजन्यतावच्छेदकं, किन्तु गुणकर्मजातिसाधारण्येन लाघवाद्व्यभिन्नसमवेतचाअषत्वमेव । घटत्वस्येव घटीयरूपादेरपि घटनिर्विकल्पकोपरमेव चाक्षुषोपगमेऽपि क्षत्यभावात्पिशाचक्रियारूपादीना