________________
५२
[ वादमालायां
नापि हेतुत्वात् । इत्थं च द्वयणुकसिद्धिरप्यावश्यकी, तदसत्त्वे त्रसरेण्वप्रत्यक्षतापत्तेः । महत्त्वं च समवायेन द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रत्येव, द्रव्यान्यतत्समवेतसाक्षात्कारत्वावच्छिन्नं प्रति च स्वाश्रयसमवेतत्वप्रत्यासत्या हेतुस्तेन न द्वयणुकस्य तदीयरूपादेर्वा साक्षात्कार इति चेत् ?
उच्यते-द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायत्वेन हेतुतया न निर्वाहः । परमाणु-- द्वयणुक-पिशाचादिसन्निकर्षादपि द्रव्यत्वसत्तापृथिवीत्वादिचाक्षुषत्वापत्तेः, घटादिगतमहत्त्वोद्भूतरूपयोरपि तत्र स्वा. श्रयसमवेतत्वप्रत्यासत्या सत्त्वात् । महत्त्वोद्भूतरूपयोः प्रत्यासत्तिमध्ये निवेशे च त्रुटेरचाक्षुषत्वाऽऽपत्तेः । द्रव्यान्यद्रव्यसमवेतत्वस्य कार्यदिशि प्रवेशे त्रुटिचाक्षयानुरोधेनैव द्रव्यचाक्षुषे चक्षुःसंयोगहेतुतावश्यकत्वात् । न च त्रुटिचाक्षु. षत्वावच्छिन्नं प्रत्येव तद्धेतुत्वं, द्रव्यत्वापेक्षया त्रुटित्वस्य गुरुत्वात् । घटाद्यनन्तव्यक्तीनां कार्यतावच्छेदककोटिनिवेशे गौरवानिश्चिताऽव्यभिचारकंत्रुटिचाक्षषत्वमेव कार्यतावच्छेदकमिति पुनरुत्तानाः।
परमाणवाद्यवच्छेदेन घटादिसन्निकर्षेऽपि तद्गतरूपाद्यग्रहाद् द्रव्यसमवेतचाक्षुषप्रयोजकचक्षुःसंयोगगतवैजात्यस्वीकारेणैव परमाण्वादिघटितसन्निकण द्रव्यत्वाद्यग्रहोपप