________________
सन्निकर्षवादः ]
Dxp
प्रत्यक्षजनकचक्षुःसंयुक्तविशेषणतानुरोधेन विलक्षणसंयोगसवध्रौव्ये महत्त्वस्यापि पृथग्घेतुत्वमावश्यकम् ।
यदि च द्रव्यचाक्षषप्रयोजकजातेापकमेवाऽभाचचाक्षुषप्रयोजकजात्यं, अतो न घटादावभावप्रत्यक्षानुरोधेन चक्षुःसंयोगान्तरकल्पना । वाय्वादौ तादृशचक्षुःसंयोगसत्त्वेऽपि द्रव्यचाक्षुषप्रयोजकजात्याश्रयस्याऽसत्त्वान्न तत् प्रत्यक्षमिति विभाव्यते, तदा रूपस्याऽहेतुत्वेऽपि न क्षतिः ।
अथ द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य प्रत्यासत्तित्वात्तयैव प्रत्यासत्या घटादिप्रत्यक्षसम्भचाच्चक्षःसंयोगत्वेन हेतुत्वे मानाभावः।तर कपालचक्षुःसंयोगानन्तरं घटस्योत्पत्तिक्षणे द्वितीयक्षणे वा तत्प्रत्यक्षस्येव ममापि कपालविनाशदशायां घटचक्षुःसंयोगोत्पत्त्या घटप्रत्यक्षस्याऽ. नुपगमे क्षत्यभावात् । न चात्मप्रत्यक्षानुरोधेन द्रव्यसाक्षाकारत्वावच्छिन्ने इन्द्रियसंयोगत्वेन हेतुत्वाच्चक्षुःसंयोगादेरपि द्रव्यचाक्षुषहेतुत्वमुपपद्यत इति चिन्तामणिकृदुक्तं युक्तम, इन्द्रियत्वस्यैकस्याभावाद्विशिष्यकार्यकारणभावविश्रामे द्रव्यमानसत्वावच्छिन्नं प्रत्यात्ममनःसंयोगत्वेन हेतुत्वेऽपि द्रव्यचाक्षुषत्वावच्छिन्ने चक्षुःसंयोगत्वेन हेतुत्वस्य नियुक्तिकत्वात् । न चैवं पिशाचतद्रूपादेः प्रत्यक्षत्वप्रसङ्गः, द्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रतिस्याश्रयसमवेतसम्बन्धेनोद्भतरूपत्वे