________________
५० ]
[वादमालायां
तादृशवेजात्यान्तरकल्पने गौरवात् । वायोरस्पार्शनत्ववत् प्रभाया अचाक्षुषत्वेऽपि बाधकाभावात् । भिन्नस्यापि तस्येतरव्याप्यत्वेन घटादौ चाक्षुषजनकस्यैव संयोगस्य स्पार्शनजनकत्वेनोक्तदोषानुद्वाराच्च । किञ्चैकस्य विलक्षणचक्षुःसंयोगदशायामन्यस्य चाक्षुषापत्त्या तत्पुरुपीयद्रव्यचाक्षुपत्वावच्छिन्नं प्रति तत्पुरुषीयचक्षःप्रतियोगिकविलक्षणसंयोगत्वेन गुरुणापि हेतुत्वमावश्यकम् । वस्तुतः समवेतत्वेनेव स्वप्रतियोगिकत्वेन चक्षुर्विशिष्टत्वमेव निविशत इति क गौरवमिति चेत् ?
न, द्रव्यवृत्त्यभावचाक्षुषं प्रत्यपि तादृशचक्षःसंयोगवद्विशेषणतैव प्रत्यासत्तिर्वाच्याऽन्यथा ऽन्धकारेऽपि चक्षःसंयुक्तवाय्यादिविशेषणतया वायवादो रूपाद्यभावग्रहप्रसङ्गात् । इत्थं चालोकसंयोगदशायां वाय्वादौ रूपाद्यभावग्रहवेलायां वाय्वादिचाक्षुषापत्तेरुद्भूतरूपहेतुतयैव वारयितु शक्यत्वात् । न च चतुःसंयुक्तविशेषणतायां द्रव्यचाक्षुषप्रयोजकवैजात्यं न निविशने किन्त्वालोकसंयोगावच्छिन्नत्वमेवेति वाच्यम्, तनिवेशे गौरवस्यैव वैजान्यनिवेशकत्वात् । न चाभावचाक्षषजनकताव. च्छेदकं वैजात्यान्तरमेव कल्पनीयम् , तत्कल्पनापेक्षयोद्भूतरूपहेतुत्वस्यैव युक्तत्वात् । अन्यथा स्ववृत्यभावविषयकघटादिचाक्षुषस्थले घटादावनन्तचक्षुःसंयोगकल्पनापत्तेः, फलमुखगौरवस्यापि कचिद्दोषत्वात् । एवं परमाण्वादौ महत्त्वाभाव