________________
सन्निकर्षवादः ]
[४६ त्यघटचाक्षुषे संयोगजचक्षुःसंयोगस्य स्फुटव्यभिचाराच्च । तथा च न कर्मजन्यताद्यवच्छेदिकया सांकर्यम् ।
वस्तुतः कर्मसंयोगजन्यतावच्छेदिका नानैव जातयः । कार्यतावच्छेदकानामननुगतत्वेऽपि क्षत्यभावात् । एवं च चाक्षुपोषधायकचक्षुःसंयोगगतं कर्मसंयोगप्रयोज्यं जातिद्वयं द्रव्यचाक्षषप्रयोजकजातेाप्यमेवेति व सांकर्यम् । एतेन यत्र चक्षःकर्मणा कपालचक्षःसंयोगजननकाले घटोत्पादोऽनन्तरं च कपालचक्षुःसंयोगाद् घटचक्षुःसंयोगचक्षुःक्रियानाशौ तत्रोचरकाले घटप्रत्यक्षानुपपत्तिः, कर्मजन्यचक्षुःसंयोगस्य घटे विरहादित्यपास्तम् ।
न चै(न्वे)वं द्रव्यचाक्षुषे उद्भूतरूपस्य हेतुत्वं न स्यात् , पिशाचादौ विलक्षणचक्षुःसंयोगविरहादेव चाक्षुषानुपपत्तेः । चक्षषि च चक्षाप्रतियोगिकविलक्षणसंयोगाभावादेव दोषाभावाद्धत्वन्तरकल्पनापेक्षया क्लृप्तकारणे चक्षुःप्रतियोगिकत्वमात्रनिवेशस्यैव लघुत्वेनौचित्यात् । घटादेः स्पार्शनदशायां चाक्षुषापत्त्या चक्षुःप्रतियोगिकत्वेन चाक्षुषहेतुत्वधौव्याच्च । परमाण्वाद्यवच्छेदेन त्वक्संयोगादपि घटादिस्पार्शनप्रसङ्गेन त्वक्संयोगादेव्यस्पार्शनजनकत्वस्यापि तादृशचैजात्येनैवावच्छेदात् । न च प्रभायाश्चाक्षुषत्वानुरोधेन द्रव्यस्पार्शनजनकतावच्छेदकं वैजात्यं द्रव्यचाक्षुषजनकतावच्छेदकवैजात्याद्भिन्नमेव युक्तं न तु तदेवेति वाच्यम् ,