________________
४८ ]
[वादमालायां
घोष्यते । तदप्याऽऽपातरमणीयम् , तत्र मुखविशेष्यकचाक्षुषस्यानभ्युपगमाद्दर्पणविशेष्यकमुखप्रकारकबोधस्यैवाभ्युपगमात्तदुत्तरं दर्पणे मुखमिति मुखविशेष्यकमानसभ्रमस्यापि सम्भवात् । न चैवं दोषकल्पनायां गौरवम् , आदर्शवृत्तित्वांशे भ्रमअनकदोषकल्पनायाः परस्याप्यावश्यकत्वात् । किञ्चैकत्र दर्पणे दशमुखप्रतिविम्यस्थले तव शतमुखचक्षुःसंयोगकल्पनं मम तु दशदर्पणनयनसंयोगकल्पनमेवेति लाघवम् । अपि च तब बहुविधानां मुख चक्षुःसंयोगगतविलक्षणजातीना, तदवच्छिन्नजनकतावच्छेदिकानां क्रियागतजातीनां, तदवच्छिन्नजनकतावच्छेदकाभिघातगतजातीनां च कल्पने गौरवमिति दिक् ।
यदि चालोकसंयोगस्याप्यस्थूलावयवावच्छेदेन तदव च्छिन्नस्थूलावयवावच्छेदेन च सच्चे न प्रत्यक्षमिति स्थूलावयवसमवेतचाक्षुषत्वावच्छिन्ने आलोकसंयोगानवच्छेदकभागानवच्छिन्नालोकसंयोगावच्छेदकास्थूलावयवानवच्छिन्न-- स्थूलावयवावच्छिन्नचक्षुःसंयोगत्वेन हेतुत्वे गौरवाद्रव्यचाक्षुषत्वावच्छिन्ने विलक्षणालोकसंयोगत्वेन विलक्षणचक्षुःसंयोगत्वेन च हेतुत्वमेव युक्तं लाघवात् , वैजात्यानन्त्य तदवच्छिन्नहेतुत्वादिकल्पनागौरवस्य च फलमुखत्वादिति विभाव्यते-तदाऽस्तु चक्षुःसंयोगगतं वैजात्यम् , तच्च कर्मजन्यतावच्छेदकजातिव्याप्यम् । चक्षुर्व्यापारं विना कुत्रापि चाक्षुषानुपपत्तेः, पूर्वोत्पन्नचक्षुःकर्मणा कपालनाशकाले यत्र चक्षुर्घटसंयोगस्तत्र