________________
[ ४७
सन्निकर्षवादः ]
रात्तदवयवस्यास्थूलत्वात् । न च स्थूलावयवसमवेतचाक्षुपत्वस्य कार्यतावच्छेदकत्वादयमदोषः, यत्र कपाले परमाण्ववच्छेदेन चक्षुः संयोगाद् घटेऽपि तदवच्छिन्नकपालावच्छेदेनैव सः, तत्कपालात्मकस्थूलावयवावच्छिन्नचक्षुःसंयोगस्य घटे सच्चात्तदानीं तच्चाक्षुषाऽऽपत्यनुद्धारात् । न च निरवच्छिन्नस्थूलावयवनिष्ठावच्छेदकताकचक्षुः संयोगहेतुत्वान्न दोषः, शर्कराद्यवच्छिन्नकपालावच्छेदेन चक्षुः संयोगेऽपि घटाऽप्रत्यक्षतापत्तेः, इति विज तीयचक्षुः संयोगत्वेन चाक्षुषहेतुतये वै तदुपपत्तिरिति ।
तदपि न रमणीयम्, स्थूलावयवसमवेतचाक्षुषत्वावच्छिन्नेऽस्थूलावयवानवच्छिन्नस्थूलावयवाऽवच्छिन्न चक्षुः संयोगस्य हेतुत्वेनैतद्दोषोद्धारात् । त्रुटिचाक्षुषे त्वालोकसंयोगवद्वातायनावच्छिन्नचक्षुः संयोगस्यावश्यं पृथग्धेतुत्वेनानुपपत्यभावात् । यदपि स्वगोलकादेरग्रहणं विलक्षणचक्षुः संयोगाभावादेवोपपादयितुं शक्यमित्युद्भाव्यते, तदपि तुच्छम् अग्रावच्छिन्नचक्षुः संयोगस्य ग्राहकत्वादेव स्थगोलकादेरग्रहणस्य प्रकाशकृतोपपादनात् । युक्तञ्चैतद् अन्यथा यच्चक्षुः क्रियया घटादौ गोलके चैकदा नाना संयोगो जनितः, तत्क्रियाजन्यतावच्छेदेकवै जात्यशालिसंयोगवद्गोलकप्रत्यक्षस्य दुर्निवारत्वात् ।
यदपि 'दर्पणे मुखमि'ति चाक्षुषं दर्पणादिस्वच्छद्रव्यप्रतिहतस्य चक्षुषः स्वमुखादौ विलक्षणसंयोगोत्पादाभ्युपगम एव सूपपदम्, कार्योन्यधर्माणां यथाकार्यमुन्नयनादित्युद्.