________________
४६]
[वादमालायां
द्विलक्षणचक्षुःसंयोगत्वेनैव द्रव्यचाक्षुषहेतुत्वम् । तच्च वेलक्षण्यं फलबलकल्प्यमिति तमसि विलक्षण चक्षुःसंयोगाभावादेव न चाक्षुषमित्याहुः।
तचिन्त्यम् , आलोकसंयोगावच्छेदकभागानवच्छिन्नालोकसंयोगावच्छेदकावच्छिनचक्षुःसंयोगत्वेन हेतुत्वे दोषाभावात् । दीर्घतन्तुव्यवतेरपि तमःस्थभागस्यालोकसंयोगानवच्छेदकत्वात् , अन्यथेयं तन्तुव्यक्तिरियती तमसीयती चालोक इतिव्यवहागनुपपत्तेः । विलक्षणचक्षुःसंयोगाभ्युपगमेनोक्तदोषोद्धारे च विनश्यदवस्थालोकसंयोगदशायां चक्षःसंयोगोत्पच्यालोकसंयोगनाशदशायां घटप्रत्यक्षापत्तिः । न च पूर्वक्षणे चक्षगत्मकाश्रयनाशपूर्व तदानीं चक्षःसंयोगनाशोपगमान्न दोष इति वाच्यं, अनन्तचक्षुरादिनाशकल्पने गौरवाद्विनश्यदवस्थालोकक्षणोत्पत्तिकचक्षुषस्तदानीं नाशायोगाच्च । न च तत्पुरुषीयद्रव्यचाक्षुषे तत्पुरुषीयविलक्षणचक्षुःसंयोगत्वेन विलक्षणालोकसंयोगत्वेन च पृथग्धेतुत्वान्न दोष इति वाच्यम् , चैत्रादिचाक्षुषजनकतावच्छेदकचक्षःसंयोगालोकसंयोगनिष्ठान-- न्तवैजात्यकल्पनापेक्षयाऽस्मदुक्तरीत्या हेतुत्वस्यैव युक्तत्वात्।
यदपि तैरुच्यते-द्रव्यचाक्षुषे न शुद्धचक्षुःसंयोगत्वेन हेतुत्वं, अम्थूलावयवावच्छेदेन चक्षुःसंयोगे चाक्षुषापत्तेः । नापि स्थूलावयावावच्छिन्नचक्षुःसंयोगत्वेन, त्रुटिचाक्षुषे व्यभिचा