________________
सन्निकर्षवादः ]
[ ४५
चैत्रीयत्वाद्यनिवेशेन चक्षः संयोगस्य चाक्षुषहेतुत्वे त्वञ्जनसंयोगालोकसंयोगयोः स्वस्वाव्यवहितोत्तरनरचाक्षुषत्वाव च्छिन्न एव हेतुत्वं द्रष्टव्यम् । अथैवमप्येकावच्छेदेना लोकसंयोगवत्यपरावच्छेदेन चक्षसंयोगे चाक्षुषापत्तिरिति चेत् न, चक्षुः संयोगावच्छिन्नालोकसंयोगत्वेन हेतुत्वात् ।
"
7
अत्र मथुरानाथप्रभृतयः - आलोकसंयोगावच्छिन्नत्वं न तत्सामानाधिकरण्यं भिन्नावच्छेदेनोभयसंयोगेऽतिप्रसङ्गात् नापि स्वरूपसम्बन्धविशेषो, मानाभावात्, अन्यथा भूतलनिष्ठघटपटसंयोगयोरपि मिथोवच्छेद्यावच्छेदकभावापत्तेः । न च चतुःसंयोगे द्रव्यचाक्षुपकारणतावच्छेदकतयैवालोकसंयोगावच्छिन्नत्वसिद्धिः, तदवच्छेदकतया तत्र धर्मान्तरसिद्धावपि तदवच्छिन्नत्वासिद्धेः । न चालोकसंयोगावच्छेदकदेशावच्छिन्नचक्षुः संयोगत्वेन हेतुत्वम् विनिगमनाविरहेण चक्षुः संयोगावच्छ्देकावच्छिन्न लोकसंयोगस्यापि हेतुत्वात् कारणतावच्छेदकस्य प्राकू सखापेक्षणाद्वा नालोकविगमेऽपि चक्षुषापत्तिरित्युक्तावपि निस्तारः, यत्रैकस्यैव पटस्यार्द्ध तमसि, अर्द्ध चालोके तत्र तमोऽवच्छेदेन चक्षुः संयोगेऽपि प्रत्यक्षापत्तेः, आलोकसंयोगावच्छेदकीभूतदीर्घ तन्तुव्यक्त्यवच्छेदेन तत्र चक्षुः संयोगाऽप्रतिघातात् । न चालोकसंयोगावच्छेदकावच्छिन्नावच्छेदकताकचक्षुः संयोगत्वेन हेतुत्वोक्तावपि निस्तारस्तादृशदीर्घा शुव्यक्तिस्थले व्यभिचारानुद्धारात् । तस्मा'
•